Yuddhakanda, Sarga 15, Verse 1
ततो मध्यात्समुद्रस्य सागरः स्वयमुत्थितः
उदयन्हि महाशैलान्मेरोरिव दिवाकरः
पन्नगैः सह दीप्तास्यैः समुद्रः प्रत्यदृश्यत
Containing 33 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततो मध्यात्समुद्रस्य सागरः स्वयमुत्थितः
उदयन्हि महाशैलान्मेरोरिव दिवाकरः
पन्नगैः सह दीप्तास्यैः समुद्रः प्रत्यदृश्यत
स्निग्धवैदूर्यसंकाशो जाम्बूनदविभूषितः
रक्तमाल्याम्बरधरः पद्मपत्रनिभेक्षणः
सागरः समतिक्रम्य पूर्वमामन्त्र्य वीर्यवान्
अब्रवीत्प्राञ्जलिर्वाक्यं राघवं शरपाणिनम्
पृथिवी वायुराकाशमापो ज्योतिश्च राघवः
स्वभावे सौम्य तिष्ठन्ति शाश्वतं मार्गमाश्रिताः
तत्स्वभावो ममाप्येष यदगाधोऽहमप्लवः
विकारस्तु भवेद्राध एतत्ते प्रवदाम्यहम्
न कामान्न च लोभाद्वा न भयात्पार्थिवात्मज
ग्राहनक्राकुलजलं स्तम्भयेयं कथंचन
विधास्ये राम येनापि विषहिष्ये ह्यहं तथा
ग्राहा न प्रहरिष्यन्ति यावत्सेना तरिष्यति
अयं सौम्य नलो नाम तनुजो विश्वकर्मणः
पित्रा दत्तवरः श्रीमान्प्रतिमो विश्वकर्मणः
एष सेतुं महोत्साहः करोतु मयि वानरः
तमहं धारयिष्यामि तथा ह्येष यथा पिता
एवमुक्त्वोदधिर्नष्टः समुत्थाय नलस्ततः
अब्रवीद्वानरश्रेष्ठो वाक्यं रामं महाबलः
अहं सेतुं करिष्यामि विस्तीर्णे वरुणालये
पितुः सामर्थ्यमास्थाय तत्त्वमाह महोदधिः
मम मातुर्वरो दत्तो मन्दरे विश्वकर्मणा
औरसस्तस्य पुत्रोऽहं सदृशो विश्वकर्मणा
न चाप्यहमनुक्तो वै प्रब्रूयामात्मनो गुणान्
काममद्यैव बध्नन्तु सेतुं वानरपुंगवाः
ततो निसृष्टरामेण सर्वतो हरियूथपाः
अभिपेतुर्महारण्यं हृष्टाः शतसहस्रशः
ते नगान्नगसंकाशाः शाखामृगगणर्षभाः
बभञ्जुर्वानरास्तत्र प्रचकर्षुश्च सागरम्
ते सालैश्चाश्वकर्णैश्च धवैर्वंशैश्च वानराः
कुटजैरर्जुनैस्तालैस्तिकलैस्तिमिशैरपि
बिल्वकैः सप्तपर्णैश्च कर्णिकारैश्च पुष्पितैः
चूतैश्चाशोकवृक्षैश्च सागरं समपूरयन्
समूलांश्च विमूलांश्च पादपान्हरिसत्तमाः
इन्द्रकेतूनिवोद्यम्य प्रजह्रुर्हरयस्तरून्
प्रक्षिप्यमाणैरचलैः सहसा जलमुद्धतम्
समुत्पतितमाकाशमपासर्पत्ततस्ततः
दशयोजनविस्तीर्णं शतयोजनमायतम्
नलश्चक्रे महासेतुं मध्ये नदनदीपतेः
शिलानां क्षिप्यमाणानां शैलानां तत्र पात्यताम्
बभूव तुमुलः शब्दस्तदा तस्मिन्महोदधौ
स नलेन कृतः सेतुः सागरे मकरालये
शुशुभे सुभगः श्रीमान्स्वातीपथ इवाम्बरे
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः
आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवंगमाः
तमचिन्त्यमसह्यं च अद्भुतं लोमहर्षणम्
ददृशुः सर्वभूतानि सागरे सेतुबन्धनम्
तानि कोटिसहस्राणि वानराणां महौजसाम्
बध्नन्तः सागरे सेतुं जग्मुः पारं महोदधेः
विशालः सुकृतः श्रीमान्सुभूमिः सुसमाहितः
अशोभत महासेतुः सीमन्त इव सागरे
ततः परे समुद्रस्य गदापाणिर्विभीषणः
परेषामभिघतार्थमतिष्ठत्सचिवैः सह
अग्रतस्तस्य सैन्यस्य श्रीमान्रामः सलक्ष्मणः
जगाम धन्वी धर्मात्मा सुग्रीवेण समन्वितः
अन्ये मध्येन गच्छन्ति पार्श्वतोऽन्ये प्लवंगमाः
सलिले प्रपतन्त्यन्ये मार्गमन्ये न लेभिरे
केचिद्वैहायस गताः सुपर्णा इव पुप्लुवुः
घोषेण महता घोषं सागरस्य समुच्छ्रितम्
भीममन्तर्दधे भीमा तरन्ती हरिवाहिनी