Yuddhakanda, Sarga 14, Verse 1
तस्य रामस्य सुप्तस्य कुशास्तीर्णे महीतले
नियमादप्रमत्तस्य निशास्तिस्रोऽतिचक्रमुः
Containing 21 sacred Sanskrit shlokas with multi-author commentaries and translations.
तस्य रामस्य सुप्तस्य कुशास्तीर्णे महीतले
नियमादप्रमत्तस्य निशास्तिस्रोऽतिचक्रमुः
न च दर्शयते मन्दस्तदा रामस्य सागरः
प्रयतेनापि रामेण यथार्हमभिपूजितः
समुद्रस्य ततः क्रुद्धो रामो रक्तान्तलोचनः
समीपस्थमुवाचेदं लक्ष्मणं शुभलक्ष्मणम्
पश्य तावदनार्यस्य पूज्यमानस्य लक्ष्मण
अवलेपं समुद्रस्य न दर्शयति यत्स्वयम्
प्रशमश्च क्षमा चैव आर्जवं प्रियवादिता
असामर्थ्यं फलन्त्येते निर्गुणेषु सतां गुणाः
आत्मप्रशंसिनं दुष्टं धृष्टं विपरिधावकम्
सर्वत्रोत्सृष्टदण्डं च लोकः सत्कुरुते नरम्
न साम्ना शक्यते कीर्तिर्न साम्ना शक्यते यशः
प्राप्तुं लक्ष्मण लोकेऽस्मिञ्जयो वा रणमूधनि
अद्य मद्बाणनिर्भिन्नैर्मकरैर्मकरालयम्
निरुद्धतोयं सौमित्रे प्लवद्भिः पश्य सर्वतः
महाभोगानि मत्स्यानां करिणां च करानिह
भोगांश्च पश्य नागानां मया भिन्नानि लक्ष्मण
सशङ्खशुक्तिका जालं समीनमकरं शरैः
अद्य युद्धेन महता समुद्रं परिशोषये
क्षमया हि समायुक्तं मामयं मकरालयः
असमर्थं विजानाति धिक्क्षमामीदृशे जने
चापमानय सौमित्रे शरांश्चाशीविषोपमान्
अद्याक्षोभ्यमपि क्रुद्धः क्षोभयिष्यामि सागरम्
वेलासु कृतमर्यादं सहसोर्मिसमाकुलम्
निर्मर्यादं करिष्यामि सायकैर्वरुणालयम्
एवमुक्त्वा धनुष्पाणिः क्रोधविस्फारितेक्षणः
बभूव रामो दुर्धर्षो युगान्ताग्निरिव ज्वलन्
संपीड्य च धनुर्घोरं कम्पयित्वा शरैर्जगत्
मुमोच विशिखानुग्रान्वज्राणीव शतक्रतुः
ते ज्वलन्तो महावेगास्तेजसा सायकोत्तमाः
प्रविशन्ति समुद्रस्य सलिलं त्रस्तपन्नगम्
ततो वेगः समुद्रस्य सनक्रमकरो महान्
संबभूव महाघोरः समारुतरवस्तदा
महोर्मिमालाविततः शङ्खशुक्तिसमाकुलः
सधूमपरिवृत्तोर्मिः सहसाभून्महोदधिः
व्यथिताः पन्नगाश्चासन्दीप्तास्या दीप्तलोचनाः
दानवाश्च महावीर्याः पातालतलवासिनः
ऊर्मयः सिन्धुराजस्य सनक्रमकरास्तदा
विन्ध्यमन्दरसंकाशाः समुत्पेतुः सहस्रशः
आघूर्णिततरङ्गौघः संभ्रान्तोरगराक्षसः
उद्वर्तित महाग्राहः संवृत्तः सलिलाशयः