Yuddhakanda, Sarga 13, Verse 1
राघवेणाभये दत्ते संनतो रावणानुजः
खात्पपातावनिं हृष्टो भक्तैरनुचरैः सह
Containing 23 sacred Sanskrit shlokas with multi-author commentaries and translations.
राघवेणाभये दत्ते संनतो रावणानुजः
खात्पपातावनिं हृष्टो भक्तैरनुचरैः सह
स तु रामस्य धर्मात्मा निपपात विभीषणः
पादयोः शरणान्वेषी चतुर्भिः सह राक्षसैः
अब्रवीच्च तदा रामं वाक्यं तत्र विभीषणः
धर्मयुक्तं च युक्तं च साम्प्रतं संप्रहर्षणम्
अनुजो रावणस्याहं तेन चास्म्यवमानितः
भवन्तं सर्वभूतानां शरण्यं शरणं गतः
परित्यक्ता मया लङ्का मित्राणि च धनानि च
भवद्गतं मे राज्यं च जीवितं च सुखानि च
राक्षसानां वधे साह्यं लङ्कायाश्च प्रधर्षणे
करिष्यामि यथाप्राणं प्रवेक्ष्यामि च वाहिनीम्
इति ब्रुवाणं रामस्तु परिष्वज्य विभीषणम्
अब्रवील्लक्ष्मणं प्रीतः समुद्राज्जलमानय
तेन चेमं महाप्राज्ञमभिषिञ्च विभीषणम्
राजानं रक्षसां क्षिप्रं प्रसन्ने मयि मानद
एवमुक्तस्तु सौमित्रिरभ्यषिञ्चद्विभीषणम्
मध्ये वानरमुख्यानां राजानं रामशासनात्
तं प्रसादं तु रामस्य दृष्ट्वा सद्यः प्लवंगमाः
प्रचुक्रुशुर्महानादान्साधु साध्विति चाब्रुवन्
अब्रवीच्च हनूमांश्च सुग्रीवश्च विभीषणम्
कथं सागरमक्षोभ्यं तराम वरुणालयम्
उपायैरभिगच्छामो यथा नदनदीपतिम्
तराम तरसा सर्वे ससैन्या वरुणालयम्
एवमुक्तस्तु धर्मज्ञः प्रत्युवाच विभीषणः
समुद्रं राघवो राजा शरणं गन्तुमर्हति
खानितः सगरेणायमप्रमेयो महोदधिः
कर्तुमर्हति रामस्य ज्ञातेः कार्यं महोदधिः
एवं विभीषणेनोक्ते राक्षसेन विपश्चिता
प्रकृत्या धर्मशीलस्य राघवस्याप्यरोचत
स लक्ष्मणं महातेजाः सुग्रीवं च हरीश्वरम्
सत्क्रियार्थं क्रियादक्षः स्मितपूर्वमुवाच ह
विभीषणस्य मन्त्रोऽयं मम लक्ष्मण रोचते
ब्रूहि त्वं सहसुग्रीवस्तवापि यदि रोचते
सुग्रीवः पण्डितो नित्यं भवान्मन्त्रविचक्षणः
उभाभ्यां संप्रधार्यार्यं रोचते यत्तदुच्यताम्
एवमुक्तौ तु तौ वीरावुभौ सुग्रीवलक्ष्मणौ
समुदाचार संयुक्तमिदं वचनमूचतुः
किमर्थं नो नरव्याघ्र न रोचिष्यति राघव
विभीषणेन यत्तूक्तमस्मिन्काले सुखावहम्
अबद्ध्वा सागरे सेतुं घोरेऽस्मिन्वरुणालये
लङ्का नासादितुं शक्या सेन्द्रैरपि सुरासुरैः
विभीषणस्य शूरस्य यथार्थं क्रियतां वचः
अलं कालात्ययं कृत्वा समुद्रोऽयं नियुज्यताम्
एवमुक्तः कुशास्तीर्णे तीरे नदनदीपतेः
संविवेश तदा रामो वेद्यामिव हुताशनः