Yuddhakanda, Sarga 12, Verse 1
अथ रामः प्रसन्नात्मा श्रुत्वा वायुसुतस्य ह
प्रत्यभाषत दुर्धर्षः श्रुतवानात्मनि स्थितम्
Containing 22 sacred Sanskrit shlokas with multi-author commentaries and translations.
अथ रामः प्रसन्नात्मा श्रुत्वा वायुसुतस्य ह
प्रत्यभाषत दुर्धर्षः श्रुतवानात्मनि स्थितम्
ममापि तु विवक्षास्ति काचित्प्रति विभीषणम्
श्रुतमिच्छामि तत्सर्वं भवद्भिः श्रेयसि स्थितैः
मित्रभावेन संप्राप्तं न त्यजेयं कथंचन
दोषो यद्यपि तस्य स्यात्सतामेतदगर्हितम्
रामस्य वचनं श्रुत्वा सुग्रीवः प्लवगेश्वरः
प्रत्यभाषत काकुत्स्थं सौहार्देनाभिचोदितः
किमत्र चित्रं धर्मज्ञ लोकनाथशिखामणे
यत्त्वमार्यं प्रभाषेथाः सत्त्ववान्सपथे स्थितः
मम चाप्यन्तरात्मायं शुद्धिं वेत्ति विभीषणम्
अनुमनाच्च भावाच्च सर्वतः सुपरीक्षितः
तस्मात्क्षिप्रं सहास्माभिस्तुल्यो भवतु राघव
विभीषणो महाप्राज्ञः सखित्वं चाभ्युपैतु नः
स सुग्रीवस्य तद्वाक्यं रामः श्रुत्वा विमृश्य च
ततः शुभतरं वाक्यमुवाच हरिपुंगवम्
सुदुष्टो वाप्यदुष्टो वा किमेष रजनीचरः
सूक्ष्ममप्यहितं कर्तुं ममाशक्तः कथंचन
पिशाचान्दानवान्यक्षान्पृथिव्यां चैव राक्षसान्
अङ्गुल्यग्रेण तान्हन्यामिच्छन्हरिगणेश्वर
श्रूयते हि कपोतेन शत्रुः शरणमागतः
अर्चितश्च यथान्यायं स्वैश्च मांसैर्निमन्त्रितः
स हि तं प्रतिजग्राह भार्या हर्तारमागतम्
कपोतो वानरश्रेष्ठ किं पुनर्मद्विधो जनः
ऋषेः कण्वस्य पुत्रेण कण्डुना परमर्षिणा
शृणु गाथां पुरा गीतां धर्मिष्ठां सत्यवादिना
बद्धाञ्जलिपुटं दीनं याचन्तं शरणागतम्
न हन्यादानृशंस्यार्थमपि शत्रुं परं पत
आर्तो वा यदि वा दृप्तः परेषां शरणं गतः
अरिः प्राणान्परित्यज्य रक्षितव्यः कृतात्मना
स चेद्भयाद्वा मोहाद्वा कामाद्वापि न रक्षति
स्वया शक्त्या यथातत्त्वं तत्पापं लोकगर्हितम्
विनष्टः पश्यतस्तस्य रक्षिणः शरणागतः
आदाय सुकृतं तस्य सर्वं गच्छेदरक्षितः
एवं दोषो महानत्र प्रपन्नानामरक्षणे
अस्वर्ग्यं चायशस्यं च बलवीर्यविनाशनम्
करिष्यामि यथार्थं तु कण्डोर्वचनमुत्तमम्
धर्मिष्ठं च यशस्यं च स्वर्ग्यं स्यात्तु फलोदये
सकृदेव प्रपन्नाय तवास्मीति च याचते
अभयं सर्वभूतेभ्यो ददाम्येतद्व्रतं मम
आनयैनं हरिश्रेष्ठ दत्तमस्याभयं मया
विभीषणो वा सुग्रीव यदि वा रावणः स्वयम्
ततस्तु सुग्रीववचो निशम्य त;द्धरीश्वरेणाभिहितं नरेश्वरः
विभीषणेनाशु जगाम संगमं; पतत्रिराजेन यथा पुरंदरः