Yuddhakanda, Sarga 11, Verse 1
इत्युक्त्वा परुषं वाक्यं रावणं रावणानुजः
आजगाम मुहूर्तेन यत्र रामः सलक्ष्मणः
Containing 59 sacred Sanskrit shlokas with multi-author commentaries and translations.
इत्युक्त्वा परुषं वाक्यं रावणं रावणानुजः
आजगाम मुहूर्तेन यत्र रामः सलक्ष्मणः
तं मेरुशिखराकारं दीप्तामिव शतह्रदाम्
गगनस्थं महीस्थास्ते ददृशुर्वानराधिपाः
तमात्मपञ्चमं दृष्ट्वा सुग्रीवो वानराधिपः
वानरैः सह दुर्धर्षश्चिन्तयामास बुद्धिमान्
चिन्तयित्वा मुहूर्तं तु वानरांस्तानुवाच ह
हनूमत्प्रमुखान्सर्वानिदं वचनमुत्तमम्
एष सर्वायुधोपेतश्चतुर्भिः सह राक्षसैः
राक्षसोऽभ्येति पश्यध्वमस्मान्हन्तुं न संशयः
सुग्रीवस्य वचः श्रुत्वा सर्वे ते वानरोत्तमाः
सालानुद्यम्य शैलांश्च इदं वचनमब्रुवन्
शीघ्रं व्यादिश नो राजन्वधायैषां दुरात्मनाम्
निपतन्तु हताश्चैते धरण्यामल्पजीविताः
तेषां संभाषमाणानामन्योन्यं स विभीषणः
उत्तरं तीरमासाद्य खस्थ एव व्यतिष्ठत
उवाच च महाप्राज्ञः स्वरेण महता महान्
सुग्रीवं तांश्च संप्रेक्ष्य खस्थ एव विभीषणः
रावणो नाम दुर्वृत्तो राक्षसो राक्षसेश्वरः
तस्याहमनुजो भ्राता विभीषण इति श्रुतः
तेन सीता जनस्थानाद्धृता हत्वा जटायुषम्
रुद्ध्वा च विवशा दीना राक्षसीभिः सुरक्षिता
तमहं हेतुभिर्वाक्यैर्विविधैश्च न्यदर्शयम्
साधु निर्यात्यतां सीता रामायेति पुनः पुनः
स च न प्रतिजग्राह रावणः कालचोदितः
उच्यमानो हितं वाक्यं विपरीत इवौषधम्
सोऽहं परुषितस्तेन दासवच्चावमानितः
त्यक्त्वा पुत्रांश्च दारांश्च राघवं शरणं गतः
सर्वलोकशरण्याय राघवाय महात्मने
निवेदयत मां क्षिप्रं विभीषणमुपस्थितम्
एतत्तु वचनं श्रुत्वा सुग्रीवो लघुविक्रमः
लक्ष्मणस्याग्रतो रामं संरब्धमिदमब्रवीत्
रावणस्यानुजो भ्राता विभीषण इति श्रुतः
चतुर्भिः सह रक्षोभिर्भवन्तं शरणं गतः
रावणेन प्रणिहितं तमवेहि विभीषणम्
तस्याहं निग्रहं मन्ये क्षमं क्षमवतां वर
राक्षसो जिह्मया बुद्ध्या संदिष्टोऽयमुपस्थितः
प्रहर्तुं मायया छन्नो विश्वस्ते त्वयि राघव
बध्यतामेष तीव्रेण दण्डेन सचिवैः सह
रावणस्य नृशंसस्य भ्राता ह्येष विभीषणः
एवमुक्त्वा तु तं रामं संरब्धो वाहिनीपतिः
वाक्यज्ञो वाक्यकुशलं ततो मौनमुपागमत्
सुग्रीवस्य तु तद्वाक्यं श्रुत्वा रामो महाबलः
समीपस्थानुवाचेदं हनूमत्प्रमुखान्हरीन्
यदुक्तं कपिराजेन रावणावरजं प्रति
वाक्यं हेतुमदत्यर्थं भवद्भिरपि तच्छ्रुतम्
सुहृदा ह्यर्थकृच्छेषु युक्तं बुद्धिमता सता
समर्थेनापि संदेष्टुं शाश्वतीं भूतिमिच्छता
इत्येवं परिपृष्टास्ते स्वं स्वं मतमतन्द्रिताः
सोपचारं तदा राममूचुर्हितचिकीर्षवः
अज्ञातं नास्ति ते किंचित्त्रिषु लोकेषु राघव
आत्मानं पूजयन्राम पृच्छस्यस्मान्सुहृत्तया
त्वं हि सत्यव्रतः शूरो धार्मिको दृढविक्रमः
परीक्ष्य कारा स्मृतिमान्निसृष्टात्मा सुहृत्सु च
तस्मादेकैकशस्तावद्ब्रुवन्तु सचिवास्तव
हेतुतो मतिसंपन्नाः समर्थाश्च पुनः पुनः
इत्युक्ते राघवायाथ मतिमानङ्गदोऽग्रतः
विभीषणपरीक्षार्थमुवाच वचनं हरिः
शत्रोः सकाशात्संप्राप्तः सर्वथा शङ्क्य एव हि
विश्वासयोग्यः सहसा न कर्तव्यो विभीषणः