Yuddhakanda, Sarga 9, Verse 1
ततो निकुम्भो रभसः सूर्यशत्रुर्महाबलः
सुप्तघ्नो यज्ञकोपश्च महापार्श्वो महोदरः
Containing 22 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततो निकुम्भो रभसः सूर्यशत्रुर्महाबलः
सुप्तघ्नो यज्ञकोपश्च महापार्श्वो महोदरः
अग्निकेतुश्च दुर्धर्षो रश्मिकेतुश्च राक्षसः
इन्द्रजिच्च महातेजा बलवान्रावणात्मजः
प्रहस्तोऽथ विरूपाक्षो वज्रदंष्ट्रो महाबलः
धूम्राक्षश्चातिकायश्च दुर्मुखश्चैव राक्षसः
परिघान्पट्टसान्प्रासाञ्शक्तिशूलपरश्वधान्
चापानि च सबाणानि खड्गांश्च विपुलाञ्शितान्
प्रगृह्य परमक्रुद्धाः समुत्पत्य च राक्षसाः
अब्रुवन्रावणं सर्वे प्रदीप्ता इव तेजसा
अद्य रामं वधिष्यामः सुग्रीवं च सलक्ष्मणम्
कृपणं च हनूमन्तं लङ्का येन प्रधर्षिता
तान्गृहीतायुधान्सर्वान्वारयित्वा विभीषणः
अब्रवीत्प्राञ्जलिर्वाक्यं पुनः प्रत्युपवेश्य तान्
अप्युपायैस्त्रिभिस्तात योऽर्थः प्राप्तुं न शक्यते
तस्य विक्रमकालांस्तान्युक्तानाहुर्मनीषिणः
प्रमत्तेष्वभियुक्तेषु दैवेन प्रहतेषु च
विक्रमास्तात सिध्यन्ति परीक्ष्य विधिना कृताः
अप्रमत्तं कथं तं तु विजिगीषुं बले स्थितम्
जितरोषं दुराधर्षं प्रधर्षयितुमिच्छथ
समुद्रं लङ्घयित्वा तु घोरं नदनदीपतिम्
कृतं हनुमता कर्म दुष्करं तर्कयेत कः
बलान्यपरिमेयानि वीर्याणि च निशाचराः
परेषां सहसावज्ञा न कर्तव्या कथंचन
किं च राक्षसराजस्य रामेणापकृतं पुरा
आजहार जनस्थानाद्यस्य भार्यां यशस्विनः
खरो यद्यतिवृत्तस्तु रामेण निहतो रणे
अवश्यं प्राणिनां प्राणा रक्षितव्या यथा बलम्
एतन्निमित्तं वैदेही भयं नः सुमहद्भवेत्
आहृता सा परित्याज्या कलहार्थे कृते न किम्
न नः क्षमं वीर्यवता तेन धर्मानुवर्तिना
वैरं निरर्थकं कर्तुं दीयतामस्य मैथिली
यावन्न सगजां साश्वां बहुरत्नसमाकुलाम्
पुरीं दारयते बाणैर्दीयतामस्य मैथिली
यावत्सुघोरा महती दुर्धर्षा हरिवाहिनी
नावस्कन्दति नो लङ्कां तावत्सीता प्रदीयताम्
विनश्येद्धि पुरी लङ्का शूराः सर्वे च राक्षसाः
रामस्य दयिता पत्नी न स्वयं यदि दीयते
प्रसादये त्वां बन्धुत्वात्कुरुष्व वचनं मम
हितं पथ्यं त्वहं ब्रूमि दीयतामस्य मैथिली
पुरा शरत्सूर्यमरीचिसंनिभा;न्नवाग्रपुङ्खान्सुदृढान्नृपात्मजः
सृजत्यमोघान्विशिखान्वधाय ते; प्रदीयतां दाशरथाय मैथिली
त्यजस्व कोपं सुखधर्मनाशनं; भजस्व धर्मं रतिकीर्तिवर्धनम्
प्रसीद जीवेम सपुत्रबान्धवाः; प्रदीयतां दाशरथाय मैथिली