Yuddhakanda, Sarga 8, Verse 1
ततो नीलाम्बुदनिभः प्रहस्तो नाम राक्षसः
अब्रवीत्प्राञ्जलिर्वाक्यं शूरः सेनापतिस्तदा
Containing 16 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततो नीलाम्बुदनिभः प्रहस्तो नाम राक्षसः
अब्रवीत्प्राञ्जलिर्वाक्यं शूरः सेनापतिस्तदा
देवदानवगन्धर्वाः पिशाचपतगोरगाः
न त्वां धर्षयितुं शक्ताः किं पुनर्वानरा रणे
सर्वे प्रमत्ता विश्वस्ता वञ्चिताः स्म हनूमता
न हि मे जीवतो गच्छेज्जीवन्स वनगोचरः
सर्वां सागरपर्यन्तां सशैलवनकाननाम्
करोम्यवानरां भूमिमाज्ञापयतु मां भवान्
रक्षां चैव विधास्यामि वानराद्रजनीचर
नागमिष्यति ते दुःखं किंचिदात्मापराधजम्
अब्रवीच्च सुसंक्रुद्धो दुर्मुखो नाम राक्षसः
इदं न क्षमणीयं हि सर्वेषां नः प्रधर्षणम्
अयं परिभवो भूयः पुरस्यान्तःपुरस्य च
श्रीमतो राक्षसेन्द्रस्य वानरेन्द्रप्रधर्षणम्
अस्मिन्मुहूर्ते हत्वैको निवर्तिष्यामि वानरान्
प्रविष्टान्सागरं भीममम्बरं वा रसातलम्
ततोऽब्रवीत्सुसंक्रुद्धो वज्रदंष्ट्रो महाबलः
प्रगृह्य परिघं घोरं मांसशोणितरूपितम्
किं वो हनुमता कार्यं कृपणेन तपस्विना
रामे तिष्ठति दुर्धर्षे सुग्रीवे सहलक्ष्मणे
अद्य रामं ससुग्रीवं परिघेण सलक्ष्मणम्
आगमिष्यामि हत्वैको विक्षोभ्य हरिवाहिनीम्
कौम्भकर्णिस्ततो वीरो निकुम्भो नाम वीर्यवान्
अब्रवीत्परमकुर्द्धो रावणं लोकरावणम्
सर्वे भवन्तस्तिष्ठन्तु महाराजेन संगताः
अहमेको हनिष्यामि राघवं सहलक्ष्मणम्
ततो वज्रहनुर्नाम राक्षसः पर्वतोपमः
क्रुद्धः परिलिहन्वक्त्रं जिह्वया वाक्यमब्रवीत्
स्वैरं कुर्वन्तु कार्याणि भवन्तो विगतज्वराः
एकोऽहं भक्षयिष्यामि तान्सर्वान्हरियूथपान्
स्वस्थाः क्रीडन्तु निश्चिन्ताः पिबन्तु मधुवारुणीम्
अहमेको हनिष्यामि सुग्रीवं सहलक्ष्मणम्
साङ्गदं च हनूमन्तं रामं च रणकुञ्जरम्