Valmiki Ramayana

Yuddhakanda, Sarga 6

Containing 18 sacred Sanskrit shlokas with multi-author commentaries and translations.

Valmiki Ramayana

Yuddhakanda, Sarga 6, Verse 1

लङ्कायां तु कृतं कर्म घोरं दृष्ट्वा भवावहम्

राक्षसेन्द्रो हनुमता शक्रेणेव महात्मना

अब्रवीद्राक्षसान्सर्वान्ह्रिया किंचिदवाङ्मुखः

Valmiki Ramayana

Yuddhakanda, Sarga 6, Verse 2

धर्षिता च प्रविष्टा च लङ्का दुष्प्रसहा पुरी

तेन वानरमात्रेण दृष्टा सीता च जानकी

Valmiki Ramayana

Yuddhakanda, Sarga 6, Verse 3

प्रसादो धर्षितश्चैत्यः प्रवरा राक्षसा हताः

आविला च पुरी लङ्का सर्वा हनुमता कृता

Valmiki Ramayana

Yuddhakanda, Sarga 6, Verse 4

किं करिष्यामि भद्रं वः किं वा युक्तमनन्तरम्

उच्यतां नः समर्थं यत्कृतं च सुकृतं भवेत्

Valmiki Ramayana

Yuddhakanda, Sarga 6, Verse 5

मन्त्रमूलं हि विजयं प्राहुरार्या मनस्विनः

तस्माद्वै रोचये मन्त्रं रामं प्रति महाबलाः

Valmiki Ramayana

Yuddhakanda, Sarga 6, Verse 6

त्रिविधाः पुरुषा लोके उत्तमाधममध्यमाः

तेषां तु समवेतानां गुणदोषं वदाम्यहम्

Valmiki Ramayana

Yuddhakanda, Sarga 6, Verse 7

मन्त्रिभिर्हितसंयुक्तैः समर्थैर्मन्त्रनिर्णये

मित्रैर्वापि समानार्थैर्बान्धवैरपि वा हितैः

Valmiki Ramayana

Yuddhakanda, Sarga 6, Verse 8

सहितो मन्त्रयित्वा यः कर्मारम्भान्प्रवर्तयेत्

दैवे च कुरुते यत्नं तमाहुः पुरुषोत्तमम्

Valmiki Ramayana

Yuddhakanda, Sarga 6, Verse 9

एकोऽर्थं विमृशेदेको धर्मे प्रकुरुते मनः

एकः कार्याणि कुरुते तमाहुर्मध्यमं नरम्

Valmiki Ramayana

Yuddhakanda, Sarga 6, Verse 10

गुणदोषावनिश्चित्य त्यक्त्वा दैवव्यपाश्रयम्

करिष्यामीति यः कार्यमुपेक्षेत्स नराधमः

Valmiki Ramayana

Yuddhakanda, Sarga 6, Verse 11

यथेमे पुरुषा नित्यमुत्तमाधममध्यमाः

एवं मन्त्रोऽपि विज्ञेय उत्तमाधममध्यमः

Valmiki Ramayana

Yuddhakanda, Sarga 6, Verse 12

ऐकमत्यमुपागम्य शास्त्रदृष्टेन चक्षुषा

मन्त्रिणो यत्र निरस्तास्तमाहुर्मन्त्रमुत्तमम्

Valmiki Ramayana

Yuddhakanda, Sarga 6, Verse 13

बह्व्योऽपि मतयो गत्वा मन्त्रिणो ह्यर्थनिर्णये

पुनर्यत्रैकतां प्राप्तः स मन्त्रो मध्यमः स्मृतः

Valmiki Ramayana

Yuddhakanda, Sarga 6, Verse 14

अन्योन्यमतिमास्थाय यत्र संप्रतिभाष्यते

न चैकमत्ये श्रेयोऽस्ति मन्त्रः सोऽधम उच्यते

Valmiki Ramayana

Yuddhakanda, Sarga 6, Verse 15

तस्मात्सुमन्त्रितं साधु भवन्तो मन्त्रिसत्तमाः

कार्यं संप्रतिपद्यन्तामेतत्कृत्यतमं मम

Valmiki Ramayana

Yuddhakanda, Sarga 6, Verse 16

वानराणां हि वीराणां सहस्रैः परिवारितः

रामोऽभ्येति पुरीं लङ्कामस्माकमुपरोधकः

Valmiki Ramayana

Yuddhakanda, Sarga 6, Verse 17

तरिष्यति च सुव्यक्तं राघवः सागरं सुखम्

तरसा युक्तरूपेण सानुजः सबलानुगः

Valmiki Ramayana

Yuddhakanda, Sarga 6, Verse 18

अस्मिन्नेवंगते कार्ये विरुद्धे वानरैः सह

हितं पुरे च सैन्ये च सर्वं संमन्त्र्यतां मम