Yuddhakanda, Sarga 4, Verse 1
श्रुत्वा हनूमतो वाक्यं यथावदनुपूर्वशः
ततोऽब्रवीन्महातेजा रामः सत्यपराक्रमः
Containing 88 sacred Sanskrit shlokas with multi-author commentaries and translations.
श्रुत्वा हनूमतो वाक्यं यथावदनुपूर्वशः
ततोऽब्रवीन्महातेजा रामः सत्यपराक्रमः
यां निवेदयसे लङ्कां पुरीं भीमस्य रक्षसः
क्षिप्रमेनां वधिष्यामि सत्यमेतद्ब्रवीमि ते
अस्मिन्मुहूर्ते सुग्रीव प्रयाणमभिरोचये
युक्तो मुहूर्तो विजयः प्राप्तो मध्यं दिवाकरः
उत्तरा फल्गुनी ह्यद्य श्वस्तु हस्तेन योक्ष्यते
अभिप्रयाम सुग्रीव सर्वानीकसमावृताः
निमित्तानि च धन्यानि यानि प्रादुर्भवन्ति मे
निहत्य रावणं सीतामानयिष्यामि जानकीम्
उपरिष्टाद्धि नयनं स्फुरमाणमिदं मम
विजयं समनुप्राप्तं शंसतीव मनोरथम्
अग्रे यातु बलस्यास्य नीलो मार्गमवेक्षितुम्
वृतः शतसहस्रेण वानराणां तरस्विनाम्
फलमूलवता नील शीतकाननवारिणा
पथा मधुमता चाशु सेनां सेनापते नय
दूषयेयुर्दुरात्मानः पथि मूलफलोदकम्
राक्षसाः परिरक्षेथास्तेभ्यस्त्वं नित्यमुद्यतः
निम्नेषु वनदुर्गेषु वनेषु च वनौकसः
अभिप्लुत्याभिपश्येयुः परेषां निहतं बलम्
सागरौघनिभं भीममग्रानीकं महाबलाः
कपिसिंहा प्रकर्षन्तु शतशोऽथ सहस्रशः
गजश्च गिरिसंकाशो गवयश्च महाबलः
गवाक्षश्चाग्रतो यान्तु गवां दृप्ता इवर्षभाः
यातु वानरवाहिन्या वानरः प्लवतां पतिः
पालयन्दक्षिणं पार्श्वमृषभो वानरर्षभः
गन्धहस्तीव दुर्धर्षस्तरस्वी गन्धमादनः
यातु वानरवाहिन्याः सव्यं पार्श्वमधिष्ठितः
यास्यामि बलमध्येऽहं बलौघमभिहर्षयन्
अधिरुह्य हनूमन्तमैरावतमिवेश्वरः
अङ्गदेनैष संयातु लक्ष्मणश्चान्तकोपमः
सार्वभौमेण भूतेशो द्रविणाधिपतिर्यथा
जाम्बवांश्च सुषेणश्च वेगदर्शी च वानरः
ऋक्षराजो महासत्त्वः कुक्षिं रक्षन्तु ते त्रयः
राघवस्य वचः श्रुत्वा सुग्रीवो वाहिनीपतिः
व्यादिदेश महावीर्यान्वानरान्वानरर्षभः
ते वानरगणाः सर्वे समुत्पत्य युयुत्सवः
गुहाभ्यः शिखरेभ्यश्च आशु पुप्लुविरे तदा
ततो वानरराजेन लक्ष्मणेन च पूजितः
जगाम रामो धर्मात्मा ससैन्यो दक्षिणां दिशम्
शतैः शतसहस्रैश्च कोटीभिरयुतैरपि
वारणाभिश्च हरिभिर्ययौ परिवृतस्तदा
तं यान्तमनुयाति स्म महती हरिवाहिनी
हृष्टाः प्रमुदिताः सर्वे सुग्रीवेणाभिपालिताः
आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवंगमाः
क्ष्वेलन्तो निनदन्तश्च जग्मुर्वै दक्षिणां दिशम्
भक्षयन्तः सुगन्धीनि मधूनि च फलानि च
उद्वहन्तो महावृक्षान्मञ्जरीपुञ्जधारिणः
अन्योन्यं सहसा दृष्टा निर्वहन्ति क्षिपन्ति च
पतन्तश्चोत्पतन्त्यन्ये पातयन्त्यपरे परान्
रावणो नो निहन्तव्यः सर्वे च रजनीचराः
इति गर्जन्ति हरयो राघवस्य समीपतः
पुरस्तादृषभो वीरो नीलः कुमुद एव च
पथानं शोधयन्ति स्म वानरैर्बहुभिः सह
मध्ये तु राजा सुग्रीवो रामो लक्ष्मण एव च
बहुभिर्बलिभिर्भीमैर्वृताः शत्रुनिबर्हणः
हरिः शतबलिर्वीरः कोटीभिर्दशभिर्वृतः
सर्वामेको ह्यवष्टभ्य ररक्ष हरिवाहिनीम्
कोटीशतपरीवारः केसरी पनसो गजः
अर्कश्चातिबलः पार्श्वमेकं तस्याभिरक्षति