Yuddhakanda, Sarga 3, Verse 1
सुग्रीवस्य वचः श्रुत्वा हेतुमत्परमार्थवित्
प्रतिजग्राह काकुत्स्थो हनूमन्तमथाब्रवीत्
Containing 32 sacred Sanskrit shlokas with multi-author commentaries and translations.
सुग्रीवस्य वचः श्रुत्वा हेतुमत्परमार्थवित्
प्रतिजग्राह काकुत्स्थो हनूमन्तमथाब्रवीत्
तरसा सेतुबन्धेन सागरोच्छोषणेन वा
सर्वथा सुसमर्थोऽस्मि सागरस्यास्य लङ्घने
कति दुर्गाणि दुर्गाया लङ्कायास्तद्ब्रवीहि मे
ज्ञातुमिच्छामि तत्सर्वं दर्शनादिव वानर
बलस्य परिमाणं च द्वारदुर्गक्रियामपि
गुप्ति कर्म च लङ्काया रक्षसां सदनानि च
यथासुखं यथावच्च लङ्कायामसि दृष्टवान्
सरमाचक्ष्व तत्त्वेन सर्वथा कुशलो ह्यसि
श्रुत्वा रामस्य वचनं हनूमान्मारुतात्मजः
वाक्यं वाक्यविदां श्रेष्ठो रामं पुनरथाब्रवीत्
श्रूयतां सर्वमाख्यास्ये दुर्गकर्मविधानतः
गुप्ता पुरी यथा लङ्का रक्षिता च यथा बलैः
परां समृद्धिं लङ्कायाः सागरस्य च भीमताम्
विभागं च बलौघस्य निर्देशं वाहनस्य च
प्रहृष्टा मुदिता लङ्का मत्तद्विपसमाकुला
महती रथसंपूर्णा रक्षोगणसमाकुला
दृढबद्धकवाटानि महापरिघवन्ति च
द्वाराणि विपुलान्यस्याश्चत्वारि सुमहान्ति च
वप्रेषूपलयन्त्राणि बलवन्ति महान्ति च
आगतं परसैन्यं तैस्तत्र प्रतिनिवार्यते
द्वारेषु संस्कृता भीमाः कालायसमयाः शिताः
शतशो रोचिता वीरैः शतघ्न्यो रक्षसां गणैः
सौवर्णश्च महांस्तस्याः प्राकारो दुष्प्रधर्षणः
मणिविद्रुमवैदूर्यमुक्ताविचरितान्तरः
सर्वतश्च महाभीमाः शीततोया महाशुभाः
अगाधा ग्राहवत्यश्च परिखा मीनसेविताः
द्वारेषु तासां चत्वारः संक्रमाः परमायताः
यन्त्रैरुपेता बहुभिर्महद्भिर्दृढसंधिभिः
त्रायन्ते संक्रमास्तत्र परसैन्यागमे सति
यन्त्रैस्तैरवकीर्यन्ते परिखासु समन्ततः
एकस्त्वकम्प्यो बलवान्संक्रमः सुमहादृढः
काञ्चनैर्बहुभिः स्तम्भैर्वेदिकाभिश्च शोभितः
स्वयं प्रकृतिसंपन्नो युयुत्सू राम रावणः
उत्थितश्चाप्रमत्तश्च बलानामनुदर्शने
लङ्का पुरी निरालम्बा देवदुर्गा भयावहा
नादेयं पार्वतं वन्यं कृत्रिमं च चतुर्विधम्
स्थिता पारे समुद्रस्य दूरपारस्य राघव
नौपथश्चापि नास्त्यत्र निरादेशश्च सर्वतः
शैलाग्रे रचिता दुर्गा सा पूर्देवपुरोपमा
वाजिवारणसंपूर्णा लङ्का परमदुर्जया
परिघाश्च शतघ्न्यश्च यन्त्राणि विविधानि च
शोभयन्ति पुरीं लङ्कां रावणस्य दुरात्मनः
अयुतं रक्षसामत्र पश्चिमद्वारमाश्रितम्
शूलहस्ता दुराधर्षाः सर्वे खड्गाग्रयोधिनः
नियुतं रक्षसामत्र दक्षिणद्वारमाश्रितम्
चतुरङ्गेण सैन्येन योधास्तत्राप्यनुत्तमाः
प्रयुतं रक्षसामत्र पूर्वद्वारं समाश्रितम्
चर्मखड्गधराः सर्वे तथा सर्वास्त्रकोविदाः
अर्बुदं रक्षसामत्र उत्तरद्वारमाश्रितम्
रथिनश्चाश्ववाहाश्च कुलपुत्राः सुपूजिताः
शतं शतसहस्राणां मध्यमं गुल्ममाश्रितम्
यातुधाना दुराधर्षाः साग्रकोटिश्च रक्षसाम्
ते मया संक्रमा भग्नाः परिखाश्चावपूरिताः
दग्धा च नगरी लङ्का प्राकाराश्चावसादिताः
येन केन तु मार्गेण तराम वरुणालयम्
हतेति नगरी लङ्कां वानरैरवधार्यताम्
अङ्गदो द्विविदो मैन्दो जाम्बवान्पनसो नलः
नीलः सेनापतिश्चैव बलशेषेण किं तव