Yuddhakanda, Sarga 2, Verse 1
तं तु शोकपरिद्यूनं रामं दशरथात्मजम्
उवाच वचनं श्रीमान्सुग्रीवः शोकनाशनम्
Containing 21 sacred Sanskrit shlokas with multi-author commentaries and translations.
तं तु शोकपरिद्यूनं रामं दशरथात्मजम्
उवाच वचनं श्रीमान्सुग्रीवः शोकनाशनम्
किं त्वं संतप्यसे वीर यथान्यः प्राकृतस्तथा
मैवं भूस्त्यज संतापं कृतघ्न इव सौहृदम्
संतापस्य च ते स्थानं न हि पश्यामि राघव
प्रवृत्तावुपलब्धायां ज्ञाते च निलये रिपोः
धृतिमाञ्शास्त्रवित्प्राज्ञः पण्डितश्चासि राघव
त्यजेमां पापिकां बुद्धिं कृत्वात्मेवार्थदूषणीम्
समुद्रं लङ्घयित्वा तु महानक्रसमाकुलम्
लङ्कामारोहयिष्यामो हनिष्यामश्च ते रिपुम्
निरुत्साहस्य दीनस्य शोकपर्याकुलात्मनः
सर्वार्था व्यवसीदन्ति व्यसनं चाधिगच्छति
इमे शूराः समर्थाश्च सर्वे नो हरियूथपाः
त्वत्प्रियार्थं कृतोत्साहाः प्रवेष्टुमपि पावकम्
एषां हर्षेण जानामि तर्कश्चास्मिन्दृढो मम
विक्रमेण समानेष्ये सीतां हत्वा यथा रिपुम्
सेतुरत्र यथा वध्येद्यथा पश्येम तां पुरीम्
तस्य राक्षसराजस्य तथा त्वं कुरु राघव
दृष्ट्वा तां हि पुरीं लङ्कां त्रिकूटशिखरे स्थिताम्
हतं च रावणं युद्धे दर्शनादुपधारय
सेतुबद्धः समुद्रे च यावल्लङ्का समीपतः
सर्वं तीर्णं च वै सैन्यं जितमित्युपधार्यताम्
इमे हि समरे शूरा हरयः कामरूपिणः
तदलं विक्लवा बुद्धी राजन्सर्वार्थनाशनी
पुरुषस्य हि लोकेऽस्मिञ्शोकः शौर्यापकर्षणः
यत्तु कार्यं मनुष्येण शौण्डीर्यमवलम्बता
शूराणां हि मनुष्याणां त्वद्विधानां महात्मनाम्
विनष्टे वा प्रनष्टे वा शोकः सर्वार्थनाशनः
त्वं तु बुद्धिमतां श्रेष्ठः सर्वशास्त्रार्थकोविदः
मद्विधैः सचिवैः सार्थमरिं जेतुमिहार्हसि
न हि पश्याम्यहं कंचित्त्रिषु लोकेषु राघव
गृहीतधनुषो यस्ते तिष्ठेदभिमुखो रणे
वानरेषु समासक्तं न ते कार्यं विपत्स्यते
अचिराद्द्रक्ष्यसे सीतां तीर्त्वा सागरमक्षयम्
तदलं शोकमालम्ब्य क्रोधमालम्ब भूपते
निश्चेष्टाः क्षत्रिया मन्दाः सर्वे चण्डस्य बिभ्यति
लङ्गनार्थं च घोरस्य समुद्रस्य नदीपतेः
सहास्माभिरिहोपेतः सूक्ष्मबुद्धिर्विचारय
इमे हि समरे शूरा हरयः कामरूपिणः
तानरीन्विधमिष्यन्ति शिलापादपवृष्टिभिः
कथंचित्परिपश्यामस्ते वयं वरुणालयम्
किमुक्त्वा बहुधा चापि सर्वथा विजयी भवान्