Yuddhakanda, Sarga 1, Verse 1
श्रुत्वा हनुमतो वाक्यं यथावदभिभाषितम्
रामः प्रीतिसमायुक्तो वाक्यमुत्तरमब्रवीत्
Containing 16 sacred Sanskrit shlokas with multi-author commentaries and translations.
श्रुत्वा हनुमतो वाक्यं यथावदभिभाषितम्
रामः प्रीतिसमायुक्तो वाक्यमुत्तरमब्रवीत्
कृतं हनुमता कार्यं सुमहद्भुवि दुष्करम्
मनसापि यदन्येन न शक्यं धरणीतले
न हि तं परिपश्यामि यस्तरेत महार्णवम्
अन्यत्र गरुणाद्वायोरन्यत्र च हनूमतः
देवदानवयक्षाणां गन्धर्वोरगरक्षसाम्
अप्रधृष्यां पुरीं लङ्कां रावणेन सुरक्षिताम्
प्रविष्टः सत्त्वमाश्रित्य जीवन्को नाम निष्क्रमेत्
को विशेत्सुदुराधर्षां राक्षसैश्च सुरक्षिताम्
यो वीर्यबलसंपन्नो न समः स्याद्धनूमतः
भृत्यकार्यं हनुमता सुग्रीवस्य कृतं महत्
एवं विधाय स्वबलं सदृशं विक्रमस्य च
यो हि भृत्यो नियुक्तः सन्भर्त्रा कर्मणि दुष्करे
कुर्यात्तदनुरागेण तमाहुः पुरुषोत्तमम्
नियुक्तो नृपतेः कार्यं न कुर्याद्यः समाहितः
भृत्यो युक्तः समर्थश्च तमाहुः पुरुषाधमम्
तन्नियोगे नियुक्तेन कृतं कृत्यं हनूमता
न चात्मा लघुतां नीतः सुग्रीवश्चापि तोषितः
अहं च रघुवंशश्च लक्ष्मणश्च महाबलः
वैदेह्या दर्शनेनाद्य धर्मतः परिरक्षिताः
इदं तु मम दीनस्या मनो भूयः प्रकर्षति
यदिहास्य प्रियाख्यातुर्न कुर्मि सदृशं प्रियम्
एष सर्वस्वभूतस्तु परिष्वङ्गो हनूमतः
मया कालमिमं प्राप्य दत्तस्तस्य महात्मनः
सर्वथा सुकृतं तावत्सीतायाः परिमार्गणम्
सागरं तु समासाद्य पुनर्नष्टं मनो मम
कथं नाम समुद्रस्य दुष्पारस्य महाम्भसः
हरयो दक्षिणं पारं गमिष्यन्ति समाहिताः
यद्यप्येष तु वृत्तान्तो वैदेह्या गदितो मम
समुद्रपारगमने हरीणां किमिवोत्तरम्
इत्युक्त्वा शोकसंभ्रान्तो रामः शत्रुनिबर्हणः
हनूमन्तं महाबाहुस्ततो ध्यानमुपागमत्