Sundarakanda, Sarga 66, Verse 1
अथाहमुत्तरं देव्या पुनरुक्तः ससंभ्रमम्
तव स्नेहान्नरव्याघ्र सौहार्यादनुमान्य च
Containing 29 sacred Sanskrit shlokas with multi-author commentaries and translations.
अथाहमुत्तरं देव्या पुनरुक्तः ससंभ्रमम्
तव स्नेहान्नरव्याघ्र सौहार्यादनुमान्य च
एवं बहुविधं वाच्यो रामो दाशरथिस्त्वया
यथा मामाप्नुयाच्छीघ्रं हत्वा रावणमाहवे
यदि वा मन्यसे वीर वसैकाहमरिंदम
कस्मिंश्चित्संवृते देशे विश्रान्तः श्वो गमिष्यसि
मम चाप्यल्पभाग्यायाः साम्निध्यात्तव वानर
अस्य शोकविपाकस्य मुहूर्तं स्याद्विमोक्षणम्
गते हि त्वयि विक्रान्ते पुनरागमनाय वै
प्राणानामपि संदेहो मम स्यान्नात्र संशयः
तवादर्शनजः शोको भूयो मां परितापयेत्
दुःखाद्दुःखपराभूतां दुर्गतां दुःखभागिनीम्
अयं तु वीरसंदेहस्तिष्ठतीव ममाग्रतः
सुमहांस्त्वत्सहायेषु हर्यृक्षेषु असंशयः
कथं नु खलु दुष्पारं तरिष्यन्ति महोदधिम्
तानि हर्यृक्षसैन्यानि तौ वा नरवरात्मजौ
त्रयाणामेव भूतानां सागरस्यास्य लङ्घने
शक्तिः स्याद्वैनतेयस्य वायोर्वा तव वानघ
तदस्मिन्कार्यनियोगे वीरैवं दुरतिक्रमे
किं पश्यसि समाधानं ब्रूहि कार्यविदां वर
काममस्य त्वमेवैकः कार्यस्य परिसाधने
पर्याप्तः परवीरघ्न यशस्यस्ते बलोदयः
बलैः समग्रैर्यदि मां हत्वा रावणमाहवे
विजयी स्वां पुरीं रामो नयेत्तत्स्याद्यशस्करम्
यथाहं तस्य वीरस्य वनादुपधिना हृता
रक्षसा तद्भयादेव तथा नार्हति राघवः
बलैस्तु संकुलां कृत्वा लङ्कां परबलार्दनः
मां नयेद्यदि काकुत्स्थस्तत्तस्य सदृशं भवेत्
तद्यथा तस्य विक्रान्तमनुरूपं महात्मनः
भवत्याहवशूरस्य तथा त्वमुपपादय
तदर्थोपहितं वाक्यं प्रश्रितं हेतुसंहितम्
निशम्याहं ततः शेषं वाक्यमुत्तरमब्रुवम्
देवि हर्यृक्षसैन्यानामीश्वरः प्लवतां वरः
सुग्रीवः सत्त्वसंपन्नस्तवार्थे कृतनिश्चयः
तस्य विक्रमसंपन्नाः सत्त्ववन्तो महाबलाः
मनःसंकल्पसंपाता निदेशे हरयः स्थिताः
येषां नोपरि नाधस्तान्न तिर्यक्सज्जते गतिः
न च कर्मसु सीदन्ति महत्स्वमिततेजसः
असकृत्तैर्महाभागैर्वानरैर्बलसंयुतैः
प्रदक्षिणीकृता भूमिर्वायुमार्गानुसारिभिः
मद्विशिष्टाश्च तुल्याश्च सन्ति तत्र वनौकसः
मत्तः प्रत्यवरः कश्चिन्नास्ति सुग्रीवसंनिधौ
अहं तावदिह प्राप्तः किं पुनस्ते महाबलाः
न हि प्रकृष्टाः प्रेष्यन्ते प्रेष्यन्ते हीतरे जनाः
तदलं परितापेन देवि मन्युर्व्यपैतु ते
एकोत्पातेन ते लङ्कामेष्यन्ति हरियूथपाः
मम पृष्ठगतौ तौ च चन्द्रसूर्याविवोदितौ
त्वत्सकाशं महाभागे नृसिंहावागमिष्यतः
अरिघ्नं सिंहसंकाशं क्षिप्रं द्रक्ष्यसि राघवम्
लक्ष्मणं च धनुष्पाणिं लङ्का द्वारमुपस्थितम्
नखदंष्ट्रायुधान्वीरान्सिंहशार्दूलविक्रमान्
वानरान्वानरेन्द्राभान्क्षिप्रं द्रक्ष्यसि संगतान्
शैलाम्बुदन्निकाशानां लङ्कामलयसानुषु
नर्दतां कपिमुख्यानामचिराच्छोष्यसे स्वनम्
निवृत्तवनवासं च त्वया सार्धमरिंदमम्
अभिषिक्तमयोध्यायां क्षिप्रं द्रक्ष्यसि राघवम्
ततो मया वाग्भिरदीनभाषिणी; शिवाभिरिष्टाभिरभिप्रसादिता
जगाम शान्तिं मम मैथिलात्मजा; तवापि शोकेन तथाभिपीडिता