Sundarakanda, Sarga 65, Verse 1
एवमुक्तस्तु हनुमान्राघवेण महात्मना
सीताया भाषितं सर्वं न्यवेदयत राघवे
Containing 36 sacred Sanskrit shlokas with multi-author commentaries and translations.
एवमुक्तस्तु हनुमान्राघवेण महात्मना
सीताया भाषितं सर्वं न्यवेदयत राघवे
इदमुक्तवती देवी जानकी पुरुषर्षभ
पूर्ववृत्तमभिज्ञानं चित्रकूटे यथा तथम्
सुखसुप्ता त्वया सार्धं जानकी पूर्वमुत्थिता
वायसः सहसोत्पत्य विरराद स्तनान्तरे
पर्यायेण च सुप्तस्त्वं देव्यङ्के भरताग्रज
पुनश्च किल पक्षी स देव्या जनयति व्यथाम्
ततः पुनरुपागम्य विरराद भृशं किल
ततस्त्वं बोधितस्तस्याः शोणितेन समुक्षितः
वायसेन च तेनैव सततं बाध्यमानया
बोधितः किल देव्यास्त्वं सुखसुप्तः परंतप
तां तु दृष्ट्वा महाबाहो रादितां च स्तनान्तरे
आशीविष इव क्रुद्धो निःश्वसन्नभ्यभाषथाः
नखाग्रैः केन ते भीरु दारितं तु स्तनान्तरम्
कः क्रीडति सरोषेण पञ्चवक्त्रेण भोगिना
निरीक्षमाणः सहसा वायसं समवैक्षताः
नखैः सरुधिरैस्तीक्ष्णैर्मामेवाभिमुखं स्थितम्
सुतः किल स शक्रस्य वायसः पततां वरः
धरान्तरचरः शीघ्रं पवनस्य गतौ समः
ततस्तस्मिन्महाबाहो कोपसंवर्तितेक्षणः
वायसे त्वं कृत्वाः क्रूरां मतिं मतिमतां वर
स दर्भं संस्तराद्गृह्य ब्रह्मास्त्रेण न्ययोजयः
स दीप्त इव कालाग्निर्जज्वालाभिमुखः खगम्
स त्वं प्रदीप्तं चिक्षेप दर्भं तं वायसं प्रति
ततस्तु वायसं दीप्तः स दर्भोऽनुजगाम ह
स पित्रा च परित्यक्तः सुरैः सर्वैर्महर्षिभिः
त्रीँल्लोकान्संपरिक्रम्य त्रातारं नाधिगच्छति
तं त्वं निपतितं भूमौ शरण्यः शरणागतम्
वधार्हमपि काकुत्स्थ कृपया परिपालयः
मोघमस्त्रं न शक्यं तु कर्तुमित्येव राघव
ततस्तस्याक्षिकाकस्य हिनस्ति स्म स दक्षिणम्
राम त्वां स नमस्कृत्वा राज्ञो दशरथस्य च
विसृष्टस्तु तदा काकः प्रतिपेदे खमालयम्
एवमस्त्रविदां श्रेष्ठः सत्त्ववाञ्शीलवानपि
किमर्थमस्त्रं रक्षःसु न योजयसि राघव
न नागा नापि गन्धर्वा नासुरा न मरुद्गणाः
तव राम मुखे स्थातुं शक्ताः प्रतिसमाधितुम्
तव वीर्यवतः कच्चिन्मयि यद्यस्ति संभ्रमः
क्षिप्रं सुनिशितैर्बाणैर्हन्यतां युधि रावणः
भ्रातुरादेशमादाय लक्ष्मणो वा परंतपः
स किमर्थं नरवरो न मां रक्षति राघवः
शक्तौ तौ पुरुषव्याघ्रौ वाय्वग्निसमतेजसौ
सुराणामपि दुर्धर्षौ किमर्थं मामुपेक्षतः
ममैव दुष्कृतं किंचिन्महदस्ति न संशयः
समर्थौ सहितौ यन्मां नापेक्षेते परंतपौ
वैदेह्या वचनं श्रुत्वा करुणं साश्रुभाषितम्
पुनरप्यहमार्यां तामिदं वचनमब्रुवम्
त्वच्छोकविमुखो रामो देवि सत्येन ते शपे
रामे दुःखाभिभूते च लक्ष्मणः परितप्यते
कथंचिद्भवती दृष्टा न कालः परिशोचितुम्
इमं मुहूर्तं दुःखानामन्तं द्रक्ष्यसि भामिनि
तावुभौ नरशार्दूलौ राजपुत्रावरिंदमौ
त्वद्दर्शनकृतोत्साहौ लङ्कां भस्मीकरिष्यतः
हत्वा च समरे रौद्रं रावणं सह बान्धवम्
राघवस्त्वां महाबाहुः स्वां पुरीं नयते ध्रुवम्
यत्तु रामो विजानीयादभिज्ञानमनिन्दिते
प्रीतिसंजननं तस्य प्रदातुं तत्त्वमर्हसि
साभिवीक्ष्य दिशः सर्वा वेण्युद्ग्रथनमुत्तमम्
मुक्त्वा वस्त्राद्ददौ मह्यं मणिमेतं महाबल