Sundarakanda, Sarga 64, Verse 1
एवमुक्तो हनुमता रामो दशरथात्मजः
तं मणिं हृदये कृत्वा प्ररुरोद सलक्ष्मणः
Containing 15 sacred Sanskrit shlokas with multi-author commentaries and translations.
एवमुक्तो हनुमता रामो दशरथात्मजः
तं मणिं हृदये कृत्वा प्ररुरोद सलक्ष्मणः
तं तु दृष्ट्वा मणिश्रेष्ठं राघवः शोककर्शितः
नेत्राभ्यामश्रुपूर्णाभ्यां सुग्रीवमिदमब्रवीत्
यथैव धेनुः स्रवति स्नेहाद्वत्सस्य वत्सला
तथा ममापि हृदयं मणिरत्नस्य दर्शनात्
मणिरत्नमिदं दत्तं वैदेह्याः श्वशुरेण मे
वधूकाले यथा बद्धमधिकं मूर्ध्नि शोभते
अयं हि जलसंभूतो मणिः प्रवरपूजितः
यज्ञे परमतुष्टेन दत्तः शक्रेण धीमता
इमं दृष्ट्वा मणिश्रेष्ठं तथा तातस्य दर्शनम्
अद्यास्म्यवगतः सौम्य वैदेहस्य तथा विभोः
अयं हि शोभते तस्याः प्रियाया मूर्ध्नि मे मणिः
अद्यास्य दर्शनेनाहं प्राप्तां तामिव चिन्तये
किमाह सीता वैदेही ब्रूहि सौम्य पुनः पुनः
परासुमिव तोयेन सिञ्चन्ती वाक्यवारिणा
इतस्तु किं दुःखतरं यदिमं वारिसंभवम्
मणिं पश्यामि सौमित्रे वैदेहीमागतं विना
चिरं जीवति वैदेही यदि मासं धरिष्यति
क्षणं सौम्य न जीवेयं विना तामसितेक्षणाम्
नय मामपि तं देशं यत्र दृष्टा मम प्रिया
न तिष्ठेयं क्षणमपि प्रवृत्तिमुपलभ्य च
कथं सा मम सुश्रोणि भीरु भीरुः सती तदा
भयावहानां घोराणां मध्ये तिष्ठति रक्षसाम्
शारदस्तिमिरोन्मुखो नूनं चन्द्र इवाम्बुदैः
आवृतं वदनं तस्या न विराजति राक्षसैः
किमाह सीता हनुमंस्तत्त्वतः कथयस्व मे
एतेन खलु जीविष्ये भेषजेनातुरो यथा
मधुरा मधुरालापा किमाह मम भामिनी
मद्विहीना वरारोहा हनुमन्कथयस्व मे
दुःखाद्दुःखतरं प्राप्य कथं जीवति जानकी