Sundarakanda, Sarga 62, Verse 1
सुग्रीवेणैवमुक्तस्तु हृष्टो दधिमुखः कपिः
राघवं लक्ष्मणं चैव सुग्रीवं चाभ्यवादयत्
Containing 40 sacred Sanskrit shlokas with multi-author commentaries and translations.
सुग्रीवेणैवमुक्तस्तु हृष्टो दधिमुखः कपिः
राघवं लक्ष्मणं चैव सुग्रीवं चाभ्यवादयत्
स प्रणम्य च सुग्रीवं राघवौ च महाबलौ
वानरैः सहितैः शूरैर्दिवमेवोत्पपात ह
स यथैवागतः पूर्वं तथैव त्वरितो गतः
निपत्य गगनाद्भूमौ तद्वनं प्रविवेश ह
स प्रविष्टो मधुवनं ददर्श हरियूथपान्
विमदानुद्धतान्सर्वान्मेहमानान्मधूदकम्
स तानुपागमद्वीरो बद्ध्वा करपुटाञ्जलिम्
उवाच वचनं श्लक्ष्णमिदं हृष्टवदङ्गदम्
सौम्य रोषो न कर्तव्यो यदेभिरभिवारितः
अज्ञानाद्रक्षिभिः क्रोधाद्भवन्तः प्रतिषेधिताः
युवराजस्त्वमीशश्च वनस्यास्य महाबल
मौर्ख्यात्पूर्वं कृतो दोषस्तद्भवान्क्षन्तुमर्हति
यथैव हि पिता तेऽभूत्पूर्वं हरिगणेश्वरः
तथा त्वमपि सुग्रीवो नान्यस्तु हरिसत्तम
आख्यातं हि मया गत्वा पितृव्यस्य तवानघ
इहोपयानं सर्वेषामेतेषां वनचारिणाम्
स त्वदागमनं श्रुत्वा सहैभिर्हरियूथपैः
प्रहृष्टो न तु रुष्टोऽसौ वनं श्रुत्वा प्रधर्षितम्
प्रहृष्टो मां पितृव्यस्ते सुग्रीवो वानरेश्वरः
शीघ्रं प्रेषय सर्वांस्तानिति होवाच पार्थिवः
श्रुत्वा दधिमुखस्यैतद्वचनं श्लक्ष्णमङ्गदः
अब्रवीत्तान्हरिश्रेष्ठो वाक्यं वाक्यविशारदः
शङ्के श्रुतोऽयं वृत्तान्तो रामेण हरियूथपाः
तत्क्षमं नेह नः स्थातुं कृते कार्ये परंतपाः
पीत्वा मधु यथाकामं विश्रान्ता वनचारिणः
किं शेषं गमनं तत्र सुग्रीवो यत्र मे गुरुः
सर्वे यथा मां वक्ष्यन्ति समेत्य हरियूथपाः
तथास्मि कर्ता कर्तव्ये भवद्भिः परवानहम्
नाज्ञापयितुमीशोऽहं युवराजोऽस्मि यद्यपि
अयुक्तं कृतकर्माणो यूयं धर्षयितुं मया
ब्रुवतश्चाङ्गदश्चैवं श्रुत्वा वचनमव्ययम्
प्रहृष्टमनसो वाक्यमिदमूचुर्वनौकसः
एवं वक्ष्यति को राजन्प्रभुः सन्वानरर्षभ
ऐश्वर्यमदमत्तो हि सर्वोऽहमिति मन्यते
तव चेदं सुसदृशं वाक्यं नान्यस्य कस्यचित्
संनतिर्हि तवाख्याति भविष्यच्छुभभाग्यताम्
सर्वे वयमपि प्राप्तास्तत्र गन्तुं कृतक्षणाः
स यत्र हरिवीराणां सुग्रीवः पतिरव्ययः
त्वया ह्यनुक्तैर्हरिभिर्नैव शक्यं पदात्पदम्
क्वचिद्गन्तुं हरिश्रेष्ठ ब्रूमः सत्यमिदं तु ते
एवं तु वदतां तेषामङ्गदः प्रत्यभाषत
बाढं गच्छाम इत्युक्त्वा उत्पपात महीतलात्
उत्पतन्तमनूत्पेतुः सर्वे ते हरियूथपाः
कृत्वाकाशं निराकाशं यज्ञोत्क्षिप्ता इवानलाः
तेऽम्बरं सहसोत्पत्य वेगवन्तः प्लवंगमाः
विनदन्तो महानादं घना वातेरिता यथा
अङ्गदे ह्यननुप्राप्ते सुग्रीवो वानराधिपः
उवाच शोकोपहतं रामं कमललोचनम्
समाश्वसिहि भद्रं ते दृष्टा देवी न संशयः
नागन्तुमिह शक्यं तैरतीते समये हि नः
न मत्सकाशमागच्छेत्कृत्ये हि विनिपातिते
युवराजो महाबाहुः प्लवतां प्रवरोऽङ्गदः
यद्यप्यकृतकृत्यानामीदृशः स्यादुपक्रमः
भवेत्तु दीनवदनो भ्रान्तविप्लुतमानसः
पितृपैतामहं चैतत्पूर्वकैरभिरक्षितम्
न मे मधुवनं हन्यादहृष्टः प्लवगेश्वरः
कौसल्या सुप्रजा राम समाश्वसिहि सुव्रत
दृष्टा देवी न संदेहो न चान्येन हनूमता
न ह्यन्यः कर्मणो हेतुः साधने तद्विधो भवेत्