Sundarakanda, Sarga 60, Verse 1
तानुवाच हरिश्रेष्ठो हनूमान्वानरर्षभः
अव्यग्रमनसो यूयं मधु सेवत वानराः
Containing 37 sacred Sanskrit shlokas with multi-author commentaries and translations.
तानुवाच हरिश्रेष्ठो हनूमान्वानरर्षभः
अव्यग्रमनसो यूयं मधु सेवत वानराः
श्रुत्वा हनुमतो वाक्यं हरीणां प्रवरोऽङ्गदः
प्रत्युवाच प्रसन्नात्मा पिबन्तु हरयो मधु
अवश्यं कृतकार्यस्य वाक्यं हनुमतो मया
अकार्यमपि कर्तव्यं किमङ्ग पुनरीदृशम्
अन्दगस्य मुखाच्छ्रुत्वा वचनं वानरर्षभाः
साधु साध्विति संहृष्टा वानराः प्रत्यपूजयन्
पूजयित्वाङ्गदं सर्वे वानरा वानरर्षभम्
जग्मुर्मधुवनं यत्र नदीवेग इव द्रुतम्
ते प्रहृष्टा मधुवनं पालानाक्रम्य वीर्यतः
अतिसर्गाच्च पटवो दृष्ट्वा श्रुत्वा च मैथिलीम्
उत्पत्य च ततः सर्वे वनपालान्समागताः
ताडयन्ति स्म शतशः सक्तान्मधुवने तदा
मधूनि द्रोणमात्राणि बहुभिः परिगृह्य ते
घ्नन्ति स्म सहिताः सर्वे भक्षयन्ति तथापरे
केचित्पीत्वापविध्यन्ति मधूनि मधुपिङ्गलाः
मधूच्चिष्टेन केचिच्च जघ्नुरन्योन्यमुत्कटाः
अपरे वृक्षमूलेषु शाखां गृह्य व्यवस्थितः
अत्यर्थं च मदग्लानाः पर्णान्यास्तीर्य शेरते
उन्मत्तभूताः प्लवगा मधुमत्ताश्च हृष्टवत्
क्षिपन्त्यपि तथान्योन्यं स्खलन्त्यपि तथापरे
केचित्क्ष्वेडान्प्रकुर्वन्ति केचित्कूजन्ति हृष्टवत्
हरयो मधुना मत्ताः केचित्सुप्ता महीतले
येऽप्यत्र मधुपालाः स्युः प्रेष्या दधिमुखस्य तु
तेऽपि तैर्वानरैर्भीमैः प्रतिषिद्धा दिशो गताः
जानुभिश्च प्रकृष्टाश्च देवमार्गं च दर्शिताः
अब्रुवन्परमोद्विग्ना गत्वा दधिमुखं वचः
हनूमता दत्तवरैर्हतं मधुवनं बलात्
वयं च जानुभिः कृष्टा देवमार्गं च दर्शिताः
ततो दधिमुखः क्रुद्धो वनपस्तत्र वानरः
हतं मधुवनं श्रुत्वा सान्त्वयामास तान्हरीन्
एतागच्छत गच्छामो वानरानतिदर्पितान्
बलेनावारयिष्यामो मधु भक्षयतो वयम्
श्रुत्वा दधिमुखस्येदं वचनं वानरर्षभाः
पुनर्वीरा मधुवनं तेनैव सहिता ययुः
मध्ये चैषां दधिमुखः प्रगृह्य सुमहातरुम्
समभ्यधावद्वेगेना ते च सर्वे प्लवंगमाः
ते शिलाः पादपांश्चापि पाषाणांश्चापि वानराः
गृहीत्वाभ्यागमन्क्रुद्धा यत्र ते कपिकुञ्जराः
ते स्वामिवचनं वीरा हृदयेष्ववसज्य तत्
त्वरया ह्यभ्यधावन्त सालतालशिलायुधाः
वृक्षस्थांश्च तलस्थांश्च वानरान्बलदर्पितान्
अभ्यक्रामन्त ते वीराः पालास्तत्र सहस्रशः
अथ दृष्ट्वा दधिमुखं क्रुद्धं वानरपुंगवाः
अभ्यधावन्त वेगेन हनूमत्प्रमुखास्तदा
तं सवृक्षं महाबाहुमापतन्तं महाबलम्
आर्यकं प्राहरत्तत्र बाहुभ्यां कुपितोऽङ्गदः
मदान्धश न वेदैनमार्यकोऽयं ममेति सः
अथैनं निष्पिपेषाशु वेगवद्वसुधातले
स भग्नबाहुर्विमुखो विह्वलः शोणितोक्षितः
मुमोह सहसा वीरो मुहूर्तं कपिकुञ्जरः
स कथंचिद्विमुक्तस्तैर्वानरैर्वानरर्षभः
उवाचैकान्तमागम्य भृत्यांस्तान्समुपागतान्
एते तिष्ठन्तु गच्छामो भर्ता नो यत्र वानरः
सुग्रीवो विपुलग्रीवः सह रामेण तिष्ठति
सर्वं चैवाङ्गदे दोषं श्रावयिष्यामि पार्थिव
अमर्षी वचनं श्रुत्वा घातयिष्यति वानरान्
इष्टं मधुवनं ह्येतत्सुग्रीवस्य महात्मनः
पितृपैतामहं दिव्यं देवैरपि दुरासदम्