Sundarakanda, Sarga 59, Verse 1
ततो जाम्बवतो वाक्यमगृह्णन्त वनौकसः
अङ्गदप्रमुखा वीरा हनूमांश्च महाकपिः
Containing 22 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततो जाम्बवतो वाक्यमगृह्णन्त वनौकसः
अङ्गदप्रमुखा वीरा हनूमांश्च महाकपिः
प्रीतिमन्तस्ततः सर्वे वायुपुत्रपुरःसराः
महेन्द्राग्रं परित्यज्य पुप्लुवुः प्लवगर्षभाः
मेरुमन्दरसंकाशा मत्ता इव महागजाः
छादयन्त इवाकाशं महाकाया महाबलाः
सभाज्यमानं भूतैस्तमात्मवन्तं महाबलम्
हनूमन्तं महावेगं वहन्त इव दृष्टिभिः
राघवे चार्थनिर्वृत्तिं भर्तुश्च परमं यशः
समाधाय समृद्धार्थाः कर्मसिद्धिभिरुन्नताः
प्रियाख्यानोन्मुखाः सर्वे सर्वे युद्धाभिनन्दिनः
सर्वे रामप्रतीकारे निश्चितार्था मनस्विनः
प्लवमानाः खमाप्लुत्य ततस्ते काननौक्षकः
नन्दनोपममासेदुर्वनं द्रुमलतायुतम्
यत्तन्मधुवनं नाम सुग्रीवस्याभिरक्षितम्
अधृष्यं सर्वभूतानां सर्वभूतमनोहरम्
यद्रक्षति महावीर्यः सदा दधिमुखः कपिः
मातुलः कपिमुख्यस्य सुग्रीवस्य महात्मनः
ते तद्वनमुपागम्य बभूवुः परमोत्कटाः
वानरा वानरेन्द्रस्य मनःकान्ततमं महत्
ततस्ते वानरा हृष्टा दृष्ट्वा मधुवनं महत्
कुमारमभ्ययाचन्त मधूनि मधुपिङ्गलाः
ततः कुमारस्तान्वृद्धाञ्जाम्बवत्प्रमुखान्कपीन्
अनुमान्य ददौ तेषां निसर्गं मधुभक्षणे
ततश्चानुमताः सर्वे संप्रहृष्टा वनौकसः
मुदिताश्च ततस्ते च प्रनृत्यन्ति ततस्ततः
गायन्ति केचित्प्रणमन्ति केचि;न्नृत्यन्ति केचित्प्रहसन्ति केचित्
पतन्ति केचिद्विचरन्ति केचि;त्प्लवन्ति केचित्प्रलपन्ति केचित्
परस्परं केचिदुपाश्रयन्ते; परस्परं केचिदतिब्रुवन्ते
द्रुमाद्द्रुमं केचिदभिप्लवन्ते; क्षितौ नगाग्रान्निपतन्ति केचित्
महीतलात्केचिदुदीर्णवेगा; महाद्रुमाग्राण्यभिसंपतन्ते
गायन्तमन्यः प्रहसन्नुपैति; हसन्तमन्यः प्रहसन्नुपैति
रुदन्तमन्यः प्ररुदन्नुपैति; नुदन्तमन्यः प्रणुदन्नुपैति
समाकुलं तत्कपिसैन्यमासी;न्मधुप्रपानोत्कट सत्त्वचेष्टम्
न चात्र कश्चिन्न बभूव मत्तो; न चात्र कश्चिन्न बभूव तृप्तो
ततो वनं तत्परिभक्ष्यमाणं; द्रुमांश्च विध्वंसितपत्रपुष्पान्
समीक्ष्य कोपाद्दधिवक्त्रनामा; निवारयामास कपिः कपींस्तान्
स तैः प्रवृद्धैः परिभर्त्स्यमानो; वनस्य गोप्ता हरिवीरवृद्धः
चकार भूयो मतिमुग्रतेजा; वनस्य रक्षां प्रति वानरेभ्यः
उवाच कांश्चित्परुषाणि धृष्ट;मसक्तमन्यांश्च तलैर्जघान
समेत्य कैश्चित्कलहं चकार; तथैव साम्नोपजगाम कांश्चित्
स तैर्मदाच्चाप्रतिवार्य वेगै;र्बलाच्च तेनाप्रतिवार्यमाणैः
प्रधर्षितस्त्यक्तभयैः समेत्य; प्रकृष्यते चाप्यनवेक्ष्य दोषम्
नखैस्तुदन्तो दशनैर्दशन्त;स्तलैश्च पादैश्च समाप्नुवन्तः
मदात्कपिं तं कपयः समग्रा; महावनं निर्विषयं च चक्रुः