Sundarakanda, Sarga 58, Verse 1
तस्य तद्वचनं श्रुत्वा वालिसूनुरभाषत
जाम्बवत्प्रमुखान्सर्वाननुज्ञाप्य महाकपीन्
Containing 22 sacred Sanskrit shlokas with multi-author commentaries and translations.
तस्य तद्वचनं श्रुत्वा वालिसूनुरभाषत
जाम्बवत्प्रमुखान्सर्वाननुज्ञाप्य महाकपीन्
अस्मिन्नेवंगते कार्ये भवतां च निवेदिते
न्याय्यं स्म सह वैदेह्या द्रष्टुं तौ पार्थिवात्मजौ
अहमेकोऽपि पर्याप्तः सराक्षसगणां पुरीम्
तां लङ्कां तरसा हन्तुं रावणं च महाबलम्
किं पुनः सहितो वीरैर्बलवद्भिः कृतात्मभिः
कृतास्त्रैः प्लवगैः शक्तैर्भवद्भिर्विजयैषिभिः
अहं तु रावणं युद्धे ससैन्यं सपुरःसरम्
सपुत्रं विधमिष्यामि सहोदरयुतं युधि
ब्राह्ममैन्द्रं च रौद्रं च वायव्यं वारुणं तथा
यदि शक्रजितोऽस्त्राणि दुर्निरीक्ष्याणि संयुगे
तान्यहं विधमिष्यामि निहनिष्यामि राक्षसान्
भवतामभ्यनुज्ञातो विक्रमो मे रुणद्धि तम्
मयातुला विसृष्टा हि शैलवृष्टिर्निरन्तरा
देवानपि रणे हन्यात्किं पुनस्तान्निशाचरान्
सागरोऽप्यतियाद्वेलां मन्दरः प्रचलेदपि
न जाम्बवन्तं समरे कम्पयेदरिवाहिनी
सर्वराक्षससंघानां राक्षसा ये च पूर्वकाः
अलमेको विनाशाय वीरो वायुसुतः कपिः
पनसस्योरुवेगेन नीलस्य च महात्मनः
मन्दरोऽप्यवशीर्येत किं पुनर्युधि राक्षसाः
सदेवासुरयुद्धेषु गन्धर्वोरगपक्षिषु
मैन्दस्य प्रतियोद्धारं शंसत द्विविदस्य वा
अश्विपुत्रौ महावेगावेतौ प्लवगसत्तमौ
पितामहवरोत्सेकात्परमं दर्पमास्थितौ
अश्विनोर्माननार्थं हि सर्वलोकपितामहः
सर्वावध्यत्वमतुलमनयोर्दत्तवान्पुरा
वरोत्सेकेन मत्तौ च प्रमथ्य महतीं चमूम्
सुराणाममृतं वीरौ पीतवन्तौ प्लवंगमौ
एतावेव हि संक्रुद्धौ सवाजिरथकुञ्जराम्
लङ्कां नाशयितुं शक्तौ सर्वे तिष्ठन्तु वानराः
अयुक्तं तु विना देवीं दृष्टबद्भिः प्लवंगमाः
समीपं गन्तुमस्माभी राघवस्य महात्मनः
दृष्टा देवी न चानीता इति तत्र निवेदनम्
अयुक्तमिव पश्यामि भवद्भिः ख्यातविक्रमैः
न हि वः प्लवते कश्चिन्नापि कश्चित्पराक्रमे
तुल्यः सामरदैत्येषु लोकेषु हरिसत्तमाः
तेष्वेवं हतवीरेषु राक्षसेषु हनूमता
किमन्यदत्र कर्तव्यं गृहीत्वा याम जानकीम्
तमेवं कृतसंकल्पं जाम्बवान्हरिसत्तमः
उवाच परमप्रीतो वाक्यमर्थवदर्थवित्
न तावदेषा मतिरक्षमा नो; यथा भवान्पश्यति राजपुत्र
यथा तु रामस्य मतिर्निविष्टा; तथा भवान्पश्यतु कार्यसिद्धिम्