Sundarakanda, Sarga 57, Verse 1
एतदाख्यानं तत्सर्वं हनूमान्मारुतात्मजः
भूयः समुपचक्राम वचनं वक्तुमुत्तरम्
Containing 17 sacred Sanskrit shlokas with multi-author commentaries and translations.
एतदाख्यानं तत्सर्वं हनूमान्मारुतात्मजः
भूयः समुपचक्राम वचनं वक्तुमुत्तरम्
सफलो राघवोद्योगः सुग्रीवस्य च संभ्रमः
शीलमासाद्य सीताया मम च प्लवनं महत्
आर्यायाः सदृशं शीलं सीतायाः प्लवगर्षभाः
तपसा धारयेल्लोकान्क्रुद्धा वा निर्दहेदपि
सर्वथातिप्रवृद्धोऽसौ रावणो राक्षसाधिपः
यस्य तां स्पृशतो गात्रं तपसा न विनाशितम्
न तदग्निशिखा कुर्यात्संस्पृष्टा पाणिना सती
जनकस्यात्मजा कुर्यादुत्क्रोधकलुषीकृता
अशोकवनिकामध्ये रावणस्य दुरात्मनः
अधस्ताच्छिंशपावृक्षे साध्वी करुणमास्थिता
राक्षसीभिः परिवृता शोकसंतापकर्शिता
मेघलेखापरिवृता चन्द्रलेखेव निष्प्रभा
अचिन्तयन्ती वैदेही रावणं बलदर्पितम्
पतिव्रता च सुश्रोणी अवष्टब्धा च जानकी
अनुरक्ता हि वैदेही रामं सर्वात्मना शुभा
अनन्यचित्ता रामे च पौलोमीव पुरंदरे
तदेकवासःसंवीता रजोध्वस्ता तथैव च
शोकसंतापदीनाङ्गी सीता भर्तृहिते रता
सा मया राक्षसी मध्ये तर्ज्यमाना मुहुर्मुहुः
राक्षसीभिर्विरूपाभिर्दृष्टा हि प्रमदा वने
एकवेणीधरा दीना भर्तृचिन्तापरायणा
अधःशय्या विवर्णाङ्गी पद्मिनीव हिमागमे
रावणाद्विनिवृत्तार्था मर्तव्यकृतनिश्चया
कथंचिन्मृगशावाक्षी विश्वासमुपपादिता
ततः संभाषिता चैव सर्वमर्थं च दर्शिता
रामसुग्रीवसख्यं च श्रुत्वा प्रीतिमुपागता
नियतः समुदाचारो भक्तिर्भर्तरि चोत्तमा
यन्न हन्ति दशग्रीवं स महात्मा दशाननः
निमित्तमात्रं रामस्तु वधे तस्य भविष्यति
एवमास्ते महाभागा सीता शोकपरायणा
यदत्र प्रतिकर्तव्यं तत्सर्वमुपपाद्यताम्