Sundarakanda, Sarga 55, Verse 1
सचन्द्रकुमुदं रम्यं सार्ककारण्डवं शुभम्
तिष्यश्रवणकदम्बमभ्रशैवलशाद्वलम्
Containing 38 sacred Sanskrit shlokas with multi-author commentaries and translations.
सचन्द्रकुमुदं रम्यं सार्ककारण्डवं शुभम्
तिष्यश्रवणकदम्बमभ्रशैवलशाद्वलम्
पुनर्वसु महामीनं लोहिताङ्गमहाग्रहम्
ऐरावतमहाद्वीपं स्वातीहंसविलोडितम्
वातसंघातजातोर्मिं चन्द्रांशुशिशिराम्बुमत्
भुजंगयक्षगन्धर्वप्रबुद्धकमलोत्पलम्
ग्रसमान इवाकाशं ताराधिपमिवालिखन्
हरन्निव सनक्षत्रं गगनं सार्कमण्डलम्
मारुतस्यालयं श्रीमान्कपिर्व्योमचरो महान्
हनूमान्मेघजालानि विकर्षन्निव गच्छति
पाण्डुरारुणवर्णानि नीलमाञ्जिष्ठकानि च
हरितारुणवर्णानि महाभ्राणि चकाशिरे
प्रविशन्नभ्रजालानि निष्क्रमंश्च पुनः पुनः
प्रच्छन्नश्च प्रकाशश्च चन्द्रमा इव लक्ष्यते
नदन्नादेन महता मेघस्वनमहास्वनः
आजगाम महातेजाः पुनर्मध्येन सागरम्
पर्वतेन्द्रं सुनाभं च समुपस्पृश्य वीर्यवान्
ज्यामुक्त इव नाराचो महावेगोऽभ्युपागतः
स किंचिदनुसंप्राप्तः समालोक्य महागिरिम्
महेन्द्रमेघसंकाशं ननाद हरिपुंगवः
निशम्य नदतो नादं वानरास्ते समन्ततः
बभूवुरुत्सुकाः सर्वे सुहृद्दर्शनकाङ्क्षिणः
जाम्बवान्स हरिश्रेष्ठः प्रीतिसंहृष्टमानसः
उपामन्त्र्य हरीन्सर्वानिदं वचनमब्रवीत्
सर्वथा कृतकार्योऽसौ हनूमान्नात्र संशयः
न ह्यस्याकृतकार्यस्य नाद एवंविधो भवेत्
तस्या बाहूरुवेगं च निनादं च महात्मनः
निशम्य हरयो हृष्टाः समुत्पेतुस्ततस्ततः
ते नगाग्रान्नगाग्राणि शिखराच्छिखराणि च
प्रहृष्टाः समपद्यन्त हनूमन्तं दिदृक्षवः
ते प्रीताः पादपाग्रेषु गृह्य शाखाः सुपुष्पिताः
वासांसीव प्रकाशानि समाविध्यन्त वानराः
तमभ्रघनसंकाशमापतन्तं महाकपिम्
दृष्ट्वा ते वानराः सर्वे तस्थुः प्राञ्जलयस्तदा
ततस्तु वेगवांस्तस्य गिरेर्गिरिनिभः कपिः
निपपात महेन्द्रस्य शिखरे पादपाकुले
ततस्ते प्रीतमनसः सर्वे वानरपुंगवाः
हनूमन्तं महात्मानं परिवार्योपतस्थिरे
परिवार्य च ते सर्वे परां प्रीतिमुपागताः
प्रहृष्टवदनाः सर्वे तमरोगमुपागतम्
उपायनानि चादाय मूलानि च फलानि च
प्रत्यर्चयन्हरिश्रेष्ठं हरयो मारुतात्मजम्
विनेदुर्मुदिताः केचिच्चक्रुः किल किलां तथा
हृष्टाः पादपशाखाश्च आनिन्युर्वानरर्षभाः
हनूमांस्तु गुरून्वृद्धाञ्जाम्बवत्प्रमुखांस्तदा
कुमारमङ्गदं चैव सोऽवन्दत महाकपिः
स ताभ्यां पूजितः पूज्यः कपिभिश्च प्रसादितः
दृष्टा देवीति विक्रान्तः संक्षेपेण न्यवेदयत्
निषसाद च हस्तेन गृहीत्वा वालिनः सुतम्
रमणीये वनोद्देशे महेन्द्रस्य गिरेस्तदा
हनूमानब्रवीद्धृष्टस्तदा तान्वानरर्षभान्
अशोकवनिकासंस्था दृष्टा सा जनकात्मजा
रक्ष्यमाणा सुघोराभी राक्षसीभिरनिन्दिता
एकवेणीधरा बाला रामदर्शनलालसा
उपवासपरिश्रान्ता मलिना जटिला कृशा
ततो दृष्टेति वचनं महार्थममृतोपमम्
निशम्य मारुतेः सर्वे मुदिता वानरा भवन्
क्ष्वेडन्त्यन्ये नदन्त्यन्ये गर्जन्त्यन्ये महाबलाः
चक्रुः किल किलामन्ये प्रतिगर्जन्ति चापरे
केचिदुच्छ्रितलाङ्गूलाः प्रहृष्टाः कपिकुञ्जराः
अञ्चितायतदीर्घाणि लाङ्गूलानि प्रविव्यधुः