Sundarakanda, Sarga 53, Verse 1
संदीप्यमानां विध्वस्तां त्रस्तरक्षो गणां पुरीम्
अवेक्ष्य हानुमाँल्लङ्कां चिन्तयामास वानरः
Containing 28 sacred Sanskrit shlokas with multi-author commentaries and translations.
संदीप्यमानां विध्वस्तां त्रस्तरक्षो गणां पुरीम्
अवेक्ष्य हानुमाँल्लङ्कां चिन्तयामास वानरः
तस्याभूत्सुमहांस्त्रासः कुत्सा चात्मन्यजायत
लङ्कां प्रदहता कर्म किंस्वित्कृतमिदं मया
धन्यास्ते पुरुषश्रेष्ठ ये बुद्ध्या कोपमुत्थितम्
निरुन्धन्ति महात्मानो दीप्तमग्निमिवाम्भसा
यदि दग्धा त्वियं लङ्का नूनमार्यापि जानकी
दग्धा तेन मया भर्तुर्हतं कार्यमजानता
यदर्थमयमारम्भस्तत्कार्यमवसादितम्
मया हि दहता लङ्कां न सीता परिरक्षिता
ईषत्कार्यमिदं कार्यं कृतमासीन्न संशयः
तस्य क्रोधाभिभूतेन मया मूलक्षयः कृतः
विनष्टा जानकी व्यक्तं न ह्यदग्धः प्रदृश्यते
लङ्कायाः कश्चिदुद्देशः सर्वा भस्मीकृता पुरी
यदि तद्विहतं कार्यं मया प्रज्ञाविपर्ययात्
इहैव प्राणसंन्यासो ममापि ह्यतिरोचते
किमग्नौ निपताम्यद्य आहोस्विद्वडवामुखे
शरीरमाहो सत्त्वानां दद्मि सागरवासिनाम्
कथं हि जीवता शक्यो मया द्रष्टुं हरीश्वरः
तौ वा पुरुषशार्दूलौ कार्यसर्वस्वघातिना
मया खलु तदेवेदं रोषदोषात्प्रदर्शितम्
प्रथितं त्रिषु लोकेषु कपितमनवस्थितम्
धिगस्तु राजसं भावमनीशमनवस्थितम्
ईश्वरेणापि यद्रागान्मया सीता न रक्षिता
विनष्टायां तु सीतायां तावुभौ विनशिष्यतः
तयोर्विनाशे सुग्रीवः सबन्धुर्विनशिष्यति
एतदेव वचः श्रुत्वा भरतो भ्रातृवत्सलः
धर्मात्मा सहशत्रुघ्नः कथं शक्ष्यति जीवितुम्
इक्ष्वाकुवंशे धर्मिष्ठे गते नाशमसंशयम्
भविष्यन्ति प्रजाः सर्वाः शोकसंतापपीडिताः
तदहं भाग्यरहितो लुप्तधर्मार्थसंग्रहः
रोषदोषपरीतात्मा व्यक्तं लोकविनाशनः
इति चिन्तयतस्तस्य निमित्तान्युपपेदिरे
पूरमप्युपलब्धानि साक्षात्पुनरचिन्तयत्
अथ वा चारुसर्वाङ्गी रक्षिता स्वेन तेजसा
न नशिष्यति कल्याणी नाग्निरग्नौ प्रवर्तते
न हि धर्मान्मनस्तस्य भार्याममिततेजसः
स्वचारित्राभिगुप्तां तां स्प्रष्टुमर्हति पावकः
नूनं रामप्रभावेन वैदेह्याः सुकृतेन च
यन्मां दहनकर्मायं नादहद्धव्यवाहनः
त्रयाणां भरतादीनां भ्रातॄणां देवता च या
रामस्य च मनःकान्ता सा कथं विनशिष्यति
यद्वा दहनकर्मायं सर्वत्र प्रभुरव्ययः
न मे दहति लाङ्गूलं कथमार्यां प्रधक्ष्यति
तपसा सत्यवाक्येन अनन्यत्वाच्च भर्तरि
अपि सा निर्दहेदग्निं न तामग्निः प्रधक्ष्यति
स तथा चिन्तयंस्तत्र देव्या धर्मपरिग्रहम्
शुश्राव हनुमान्वाक्यं चारणानां महात्मनाम्
अहो खलु कृतं कर्म दुर्विषह्यं हनूमता
अग्निं विसृजताभीक्ष्णं भीमं राक्षससद्मनि
दग्धेयं नगरी लङ्का साट्टप्राकारतोरणा
जानकी न च दग्धेति विस्मयोऽद्भुत एव नः
स निमित्तैश्च दृष्टार्थैः कारणैश्च महागुणैः
ऋषिवाक्यैश्च हनुमानभवत्प्रीतमानसः
ततः कपिः प्राप्तमनोरथार्थ;स्तामक्षतां राजसुतां विदित्वा
प्रत्यक्षतस्तां पुनरेव दृष्ट्वा; प्रतिप्रयाणाय मतिं चकार