Sundarakanda, Sarga 52, Verse 1
वीक्षमाणस्ततो लङ्कां कपिः कृतमनोरथः
वर्धमानसमुत्साहः कार्यशेषमचिन्तयत्
Containing 17 sacred Sanskrit shlokas with multi-author commentaries and translations.
वीक्षमाणस्ततो लङ्कां कपिः कृतमनोरथः
वर्धमानसमुत्साहः कार्यशेषमचिन्तयत्
किं नु खल्वविशिष्टं मे कर्तव्यमिह साम्प्रतम्
यदेषां रक्षसां भूयः संतापजननं भवेत्
वनं तावत्प्रमथितं प्रकृष्टा राक्षसा हताः
बलैकदेशः क्षपितः शेषं दुर्गविनाशनम्
दुर्गे विनाशिते कर्म भवेत्सुखपरिश्रमम्
अल्पयत्नेन कार्येऽस्मिन्मम स्यात्सफलः श्रमः
यो ह्ययं मम लाङ्गूले दीप्यते हव्यवाहनः
अस्य संतर्पणं न्याय्यं कर्तुमेभिर्गृहोत्तमैः
ततः प्रदीप्तलाङ्गूलः सविद्युदिव तोयदः
भवनाग्रेषु लङ्काया विचचार महाकपिः
मुमोच हनुमानग्निं कालानलशिखोपमम्
श्वसनेन च संयोगादतिवेगो महाबलः
कालाग्निरिव जज्वाल प्रावर्धत हुताशनः
प्रदीप्तमग्निं पवनस्तेषु वेश्मसु चारयत्
तानि काञ्चनजालानि मुक्तामणिमयानि च
भवनान्यवशीर्यन्त रत्नवन्ति महान्ति च
तानि भग्नविमानानि निपेतुर्वसुधातले
भवनानीव सिद्धानामम्बरात्पुण्यसंक्षये
वज्रविद्रुमवैदूर्यमुक्तारजतसंहितान्
विचित्रान्भवनाद्धातून्स्यन्दमानान्ददर्श सः
नाग्निस्तृप्यति काष्ठानां तृणानां च यथा तथा
हनूमान्राक्षसेन्द्राणां वधे किंचिन्न तृप्यति
हुताशनज्वालसमावृता सा; हतप्रवीरा परिवृत्तयोधा
हनूमातः क्रोधबलाभिभूता; बभूव शापोपहतेव लङ्का
ससंभ्रमं त्रस्तविषण्णराक्षसां; समुज्ज्वलज्ज्वालहुताशनाङ्किताम्
ददर्श लङ्कां हनुमान्महामनाः; स्वयम्भुकोपोपहतामिवावनिम्
स राक्षसांस्तान्सुबहूंश्च हत्वा; वनं च भङ्क्त्वा बहुपादपं तत्
विसृज्य रक्षो भवनेषु चाग्निं; जगाम रामं मनसा महात्मा
लङ्कां समस्तां संदीप्य लाङ्गूलाग्निं महाकपिः
निर्वापयामास तदा समुद्रे हरिसत्तमः