Valmiki Ramayana

Sundarakanda, Sarga 50

Containing 17 sacred Sanskrit shlokas with multi-author commentaries and translations.

Valmiki Ramayana

Sundarakanda, Sarga 50, Verse 1

तस्य तद्वचनं श्रुत्वा वानरस्य महात्मनः

आज्ञापयद्वधं तस्य रावणः क्रोधमूर्छितः

Valmiki Ramayana

Sundarakanda, Sarga 50, Verse 2

वधे तस्य समाज्ञप्ते रावणेन दुरात्मना

निवेदितवतो दौत्यं नानुमेने विभीषणः

Valmiki Ramayana

Sundarakanda, Sarga 50, Verse 3

तं रक्षोऽधिपतिं क्रुद्धं तच्च कार्यमुपस्थितम्

विदित्वा चिन्तयामास कार्यं कार्यविधौ स्थितः

Valmiki Ramayana

Sundarakanda, Sarga 50, Verse 4

निश्चितार्थस्ततः साम्नापूज्य शत्रुजिदग्रजम्

उवाच हितमत्यर्थं वाक्यं वाक्यविशारदः

Valmiki Ramayana

Sundarakanda, Sarga 50, Verse 5

राजन्धर्मविरुद्धं च लोकवृत्तेश्च गर्हितम्

तव चासदृशं वीर कपेरस्य प्रमापणम्

Valmiki Ramayana

Sundarakanda, Sarga 50, Verse 6

असंशयं शत्रुरयं प्रवृद्धः; कृतं ह्यनेनाप्रियमप्रमेयम्

न दूतवध्यां प्रवदन्ति सन्तो; दूतस्य दृष्टा बहवो हि दण्डाः

Valmiki Ramayana

Sundarakanda, Sarga 50, Verse 7

वैरूप्यामङ्गेषु कशाभिघातो; मौण्ड्यं तथा लक्ष्मणसंनिपातः

एतान्हि दूते प्रवदन्ति दण्डा;न्वधस्तु दूतस्य न नः श्रुतोऽपि

Valmiki Ramayana

Sundarakanda, Sarga 50, Verse 8

कथं च धर्मार्थविनीतबुद्धिः; परावरप्रत्ययनिश्चितार्थः

भवद्विधः कोपवशे हि तिष्ठे;त्कोपं नियच्छन्ति हि सत्त्ववन्तः

Valmiki Ramayana

Sundarakanda, Sarga 50, Verse 9

न धर्मवादे न च लोकवृत्ते; न शास्त्रबुद्धिग्रहणेषु वापि

विद्येत कश्चित्तव वीरतुल्य;स्त्वं ह्युत्तमः सर्वसुरासुराणाम्

Valmiki Ramayana

Sundarakanda, Sarga 50, Verse 10

न चाप्यस्य कपेर्घाते कंचित्पश्याम्यहं गुणम्

तेष्वयं पात्यतां दण्डो यैरयं प्रेषितः कपिः

Valmiki Ramayana

Sundarakanda, Sarga 50, Verse 11

साधुर्वा यदि वासाधुर्परैरेष समर्पितः

ब्रुवन्परार्थं परवान्न दूतो वधमर्हति

Valmiki Ramayana

Sundarakanda, Sarga 50, Verse 12

अपि चास्मिन्हते राजन्नान्यं पश्यामि खेचरम्

इह यः पुनरागच्छेत्परं पारं महोदधिः

Valmiki Ramayana

Sundarakanda, Sarga 50, Verse 13

तस्मान्नास्य वधे यत्नः कार्यः परपुरंजय

भवान्सेन्द्रेषु देवेषु यत्नमास्थातुमर्हति

Valmiki Ramayana

Sundarakanda, Sarga 50, Verse 14

अस्मिन्विनष्टे न हि दूतमन्यं; पश्यामि यस्तौ नरराजपुत्रौ

युद्धाय युद्धप्रियदुर्विनीता;वुद्योजयेद्दीर्घपथावरुद्धौ

Valmiki Ramayana

Sundarakanda, Sarga 50, Verse 15

पराक्रमोत्साहमनस्विनां च; सुरासुराणामपि दुर्जयेन

त्वया मनोनन्दन नैरृतानां; युद्धायतिर्नाशयितुं न युक्ता

Valmiki Ramayana

Sundarakanda, Sarga 50, Verse 16

हिताश्च शूराश्च समाहिताश्च; कुलेषु जाताश्च महागुणेषु

मनस्विनः शस्त्रभृतां वरिष्ठाः; कोट्यग्रशस्ते सुभृताश्च योधाः

Valmiki Ramayana

Sundarakanda, Sarga 50, Verse 17

तदेकदेशेन बलस्य ताव;त्केचित्तवादेशकृतोऽपयान्तु

तौ राजपुत्रौ विनिगृह्य मूढौ; परेषु ते भावयितुं प्रभावम्