Sundarakanda, Sarga 49, Verse 1
तं समीक्ष्य महासत्त्वं सत्त्ववान्हरिसत्तमः
वाक्यमर्थवदव्यग्रस्तमुवाच दशाननम्
Containing 36 sacred Sanskrit shlokas with multi-author commentaries and translations.
तं समीक्ष्य महासत्त्वं सत्त्ववान्हरिसत्तमः
वाक्यमर्थवदव्यग्रस्तमुवाच दशाननम्
अहं सुग्रीवसंदेशादिह प्राप्तस्तवालयम्
राक्षसेन्द्र हरीशस्त्वां भ्राता कुशलमब्रवीत्
भ्रातुः शृणु समादेशं सुग्रीवस्य महात्मनः
धर्मार्थोपहितं वाक्यमिह चामुत्र च क्षमम्
राजा दशरथो नाम रथकुञ्जरवाजिमान्
पितेव बन्धुर्लोकस्य सुरेश्वरसमद्युतिः
ज्येष्ठस्तस्य महाबाहुः पुत्रः प्रियकरः प्रभुः
पितुर्निदेशान्निष्क्रान्तः प्रविष्टो दण्डकावनम्
लक्ष्मणेन सह भ्रात्रा सीतया चापि भार्यया
रामो नाम महातेजा धर्म्यं पन्थानमाश्रितः
तस्य भार्या वने नष्टा सीता पतिमनुव्रता
वैदेहस्य सुता राज्ञो जनकस्य महात्मनः
स मार्गमाणस्तां देवीं राजपुत्रः सहानुजः
ऋश्यमूकमनुप्राप्तः सुग्रीवेण च संगतः
तस्य तेन प्रतिज्ञातं सीतायाः परिमार्गणम्
सुग्रीवस्यापि रामेण हरिराज्यं निवेदितम्
ततस्तेन मृधे हत्वा राजपुत्रेण वालिनम्
सुग्रीवः स्थापितो राज्ये हर्यृक्षाणां गणेश्वरः
स सीतामार्गणे व्यग्रः सुग्रीवः सत्यसंगरः
हरीन्संप्रेषयामास दिशः सर्वा हरीश्वरः
तां हरीणां सहस्राणि शतानि नियुतानि च
दिक्षु सर्वासु मार्गन्ते अधश्चोपरि चाम्बरे
वैनतेय समाः केचित्केचित्तत्रानिलोपमाः
असंगगतयः शीघ्रा हरिवीरा महाबलाः
अहं तु हनुमान्नाम मारुतस्यौरसः सुतः
सीतायास्तु कृते तूर्णं शतयोजनमायतम्
समुद्रं लङ्घयित्वैव तां दिदृक्षुरिहागतः
तद्भवान्दृष्टधर्मार्थस्तपः कृतपरिग्रहः
परदारान्महाप्राज्ञ नोपरोद्धुं त्वमर्हसि
न हि धर्मविरुद्धेषु बह्वपायेषु कर्मसु
मूलघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः
कश्च लक्ष्मणमुक्तानां रामकोपानुवर्तिनाम्
शराणामग्रतः स्थातुं शक्तो देवासुरेष्वपि
न चापि त्रिषु लोकेषु राजन्विद्येत कश्चन
राघवस्य व्यलीकं यः कृत्वा सुखमवाप्नुयात्
तत्त्रिकालहितं वाक्यं धर्म्यमर्थानुबन्धि च
मन्यस्व नरदेवाय जानकी प्रतिदीयताम्
दृष्टा हीयं मया देवी लब्धं यदिह दुर्लभम्
उत्तरं कर्म यच्छेषं निमित्तं तत्र राघवः
लक्षितेयं मया सीता तथा शोकपरायणा
गृह्य यां नाभिजानासि पञ्चास्यामिव पन्नगीम्
नेयं जरयितुं शक्या सासुरैरमरैरपि
विषसंसृष्टमत्यर्थं भुक्तमन्नमिवौजसा
तपःसंतापलब्धस्ते योऽयं धर्मपरिग्रहः
न स नाशयितुं न्याय्य आत्मप्राणपरिग्रहः
अवध्यतां तपोभिर्यां भवान्समनुपश्यति
आत्मनः सासुरैर्देवैर्हेतुस्तत्राप्ययं महान्
सुग्रीवो न हि देवोऽयं नासुरो न च मानुषः
न राक्षसो न गन्धर्वो न यक्षो न च पन्नगः
मानुषो राघवो राजन्सुग्रीवश्च हरीश्वरः
तस्मात्प्राणपरित्राणं कथं राजन्करिष्यसि
न तु धर्मोपसंहारमधर्मफलसंहितम्
तदेव फलमन्वेति धर्मश्चाधर्मनाशनः
प्राप्तं धर्मफलं तावद्भवता नात्र संशयः
फलमस्याप्यधर्मस्य क्षिप्रमेव प्रपत्स्यसे
जनस्थानवधं बुद्ध्वा बुद्ध्वा वालिवधं तथा
रामसुग्रीवसख्यं च बुध्यस्व हितमात्मनः
कामं खल्वहमप्येकः सवाजिरथकुञ्जराम्
लङ्कां नाशयितुं शक्तस्तस्यैष तु विनिश्चयः