Sundarakanda, Sarga 48, Verse 1
तमुद्वीक्ष्य महाबाहुः पिङ्गाक्षं पुरतः स्थितम्
रोषेण महताविष्टो रावणो लोकरावणः
Containing 16 sacred Sanskrit shlokas with multi-author commentaries and translations.
तमुद्वीक्ष्य महाबाहुः पिङ्गाक्षं पुरतः स्थितम्
रोषेण महताविष्टो रावणो लोकरावणः
स राजा रोषताम्राक्षः प्रहस्तं मन्त्रिसत्तमम्
कालयुक्तमुवाचेदं वचो विपुलमर्थवत्
दुरात्मा पृच्छ्यतामेष कुतः किं वास्य कारणम्
वनभङ्गे च कोऽस्यार्थो राक्षसीनां च तर्जने
रावणस्य वचः श्रुत्वा प्रहस्तो वाक्यमब्रवीत्
समाश्वसिहि भद्रं ते न भीः कार्या त्वया कपे
यदि तावत्त्वमिन्द्रेण प्रेषितो रावणालयम्
तत्त्वमाख्याहि मा ते भूद्भयं वानर मोक्ष्यसे
यदि वैश्रवणस्य त्वं यमस्य वरुणस्य च
चारुरूपमिदं कृत्वा यमस्य वरुणस्य च
विष्णुना प्रेषितो वापि दूतो विजयकाङ्क्षिणा
न हि ते वानरं तेजो रूपमात्रं तु वानरम्
तत्त्वतः कथयस्वाद्य ततो वानर मोक्ष्यसे
अनृतं वदतश्चापि दुर्लभं तव जीवितम्
अथ वा यन्निमित्तस्ते प्रवेशो रावणालये
एवमुक्तो हरिवरस्तदा रक्षोगणेश्वरम्
अब्रवीन्नास्मि शक्रस्य यमस्य वरुणस्य वा
धनदेन न मे सख्यं विष्णुना नास्मि चोदितः
जातिरेव मम त्वेषा वानरोऽहमिहागतः
दर्शने राक्षसेन्द्रस्य दुर्लभे तदिदं मया
वनं राक्षसराजस्य दर्शनार्थे विनाशितम्
ततस्ते राक्षसाः प्राप्ता बलिनो युद्धकाङ्क्षिणः
रक्षणार्थं च देहस्य प्रतियुद्धा मया रणे
अस्त्रपाशैर्न शक्योऽहं बद्धुं देवासुरैरपि
पितामहादेव वरो ममाप्येषोऽभ्युपागतः
राजानं द्रष्टुकामेन मयास्त्रमनुवर्तितम्
विमुक्तो अहमस्त्रेण राक्षसैस्त्वतिपीडितः
दूतोऽहमिति विज्ञेयो राघवस्यामितौजसः
श्रूयतां चापि वचनं मम पथ्यमिदं प्रभो