Sundarakanda, Sarga 46, Verse 1
ततस्तु रक्षोऽधिपतिर्महात्मा; हनूमताक्षे निहते कुमारे
मनः समाधाय तदेन्द्रकल्पं; समादिदेशेन्द्रजितं स रोषात्
Containing 59 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततस्तु रक्षोऽधिपतिर्महात्मा; हनूमताक्षे निहते कुमारे
मनः समाधाय तदेन्द्रकल्पं; समादिदेशेन्द्रजितं स रोषात्
त्वमस्त्रविच्छस्त्रभृतां वरिष्ठः; सुरासुराणामपि शोकदाता
सुरेषु सेन्द्रेषु च दृष्टकर्मा; पितामहाराधनसंचितास्त्रः
तवास्त्रबलमासाद्य नासुरा न मरुद्गणाः
न कश्चित्त्रिषु लोकेषु संयुगे न गतश्रमः
भुजवीर्याभिगुप्तश्च तपसा चाभिरक्षितः
देशकालविभागज्ञस्त्वमेव मतिसत्तमः
न तेऽस्त्यशक्यं समरेषु कर्मणा; न तेऽस्त्यकार्यं मतिपूर्वमन्त्रणे
न सोऽस्ति कश्चित्त्रिषु संग्रहेषु वै; न वेद यस्तेऽस्त्रबलं बलं च ते
ममानुरूपं तपसो बलं च ते; पराक्रमश्चास्त्रबलं च संयुगे
न त्वां समासाद्य रणावमर्दे; मनः श्रमं गच्छति निश्चितार्थम्
निहता इंकराः सर्वे जम्बुमाली च राक्षसः
अमात्यपुत्रा वीराश्च पञ्च सेनाग्रयायिनः
सहोदरस्ते दयितः कुमारोऽक्षश्च सूदितः
न तु तेष्वेव मे सारो यस्त्वय्यरिनिषूदन
इदं हि दृष्ट्वा मतिमन्महद्बलं; कपेः प्रभावं च पराक्रमं च
त्वमात्मनश्चापि समीक्ष्य सारं; कुरुष्व वेगं स्वबलानुरूपम्
बलावमर्दस्त्वयि संनिकृष्टे; यथा गते शाम्यति शान्तशत्रौ
तथा समीक्ष्यात्मबलं परं च; समारभस्वास्त्रविदां वरिष्ठ
न खल्वियं मतिः श्रेष्ठा यत्त्वां संप्रेषयाम्यहम्
इयं च राजधर्माणां क्षत्रस्य च मतिर्मता
नानाशस्त्रैश्च संग्रामे वैशारद्यमरिंदम
अवश्यमेव बोद्धव्यं काम्यश्च विजयो रणे
ततः पितुस्तद्वचनं निशम्य; प्रदक्षिणं दक्षसुतप्रभावः
चकार भर्तारमदीनसत्त्वो; रणाय वीरः प्रतिपन्नबुद्धिः
ततस्तैः स्वगणैरिष्टैरिन्द्रजित्प्रतिपूजितः
युद्धोद्धतकृतोत्साहः संग्रामं प्रतिपद्यत
श्रीमान्पद्मपलाशाक्षो राक्षसाधिपतेः सुतः
निर्जगाम महातेजाः समुद्र इव पर्वसु
स पक्षि राजोपमतुल्यवेगै;र्व्यालैश्चतुर्भिः सिततीक्ष्णदंष्ट्रैः
रथं समायुक्तमसंगवेगं; समारुरोहेन्द्रजिदिन्द्रकल्पः
स रथी धन्विनां श्रेष्ठः शस्त्रज्ञोऽस्त्रविदां वरः
रथेनाभिययौ क्षिप्रं हनूमान्यत्र सोऽभवत्
स तस्य रथनिर्घोषं ज्यास्वनं कार्मुकस्य च
निशम्य हरिवीरोऽसौ संप्रहृष्टतरोऽभवत्
सुमहच्चापमादाय शितशल्यांश्च सायकान्
हनूमन्तमभिप्रेत्य जगाम रणपण्डितः
तस्मिंस्ततः संयति जातहर्षे; रणाय निर्गच्छति बाणपाणौ
दिशश्च सर्वाः कलुषा बभूवु;र्मृगाश्च रौद्रा बहुधा विनेदुः
समागतास्तत्र तु नागयक्षा; महर्षयश्चक्रचराश्च सिद्धाः
नभः समावृत्य च पक्षिसंघा; विनेदुरुच्चैः परमप्रहृष्टाः
आयन्तं सरथं दृष्ट्वा तूर्णमिन्द्रजितं कपिः
विननाद महानादं व्यवर्धत च वेगवान्
इन्द्रजित्तु रथं दिव्यमास्थितश्चित्रकार्मुकः
धनुर्विस्फारयामास तडिदूर्जितनिःस्वनम्
ततः समेतावतितीक्ष्णवेगौ; महाबलौ तौ रणनिर्विशङ्कौ
कपिश्च रक्षोऽधिपतेश्च पुत्रः; सुरासुरेन्द्राविव बद्धवैरौ
स तस्य वीरस्य महारथस्या; धनुष्मतः संयति संमतस्य
शरप्रवेगं व्यहनत्प्रवृद्ध;श्चचार मार्गे पितुरप्रमेयः
ततः शरानायततीक्ष्णशल्या;न्सुपत्रिणः काञ्चनचित्रपुङ्खान्
मुमोच वीरः परवीरहन्ता; सुसंततान्वज्रनिपातवेगान्
स तस्य तत्स्यन्दननिःस्वनं च; मृदङ्गभेरीपटहस्वनं च
विकृष्यमाणस्य च कार्मुकस्य; निशम्य घोषं पुनरुत्पपात
शराणामन्तरेष्वाशु व्यवर्तत महाकपिः
हरिस्तस्याभिलक्षस्य मोक्षयँल्लक्ष्यसंग्रहम्
शराणामग्रतस्तस्य पुनः समभिवर्तत
प्रसार्य हस्तौ हनुमानुत्पपातानिलात्मजः
तावुभौ वेगसंपन्नौ रणकर्मविशारदौ
सर्वभूतमनोग्राहि चक्रतुर्युद्धमुत्तमम्