Sundarakanda, Sarga 45, Verse 1
सेनापतीन्पञ्च स तु प्रमापिता;न्हनूमता सानुचरान्सवाहनान्
समीक्ष्य राजा समरोद्धतोन्मुखं; कुमारमक्षं प्रसमैक्षताक्षतम्
Containing 39 sacred Sanskrit shlokas with multi-author commentaries and translations.
सेनापतीन्पञ्च स तु प्रमापिता;न्हनूमता सानुचरान्सवाहनान्
समीक्ष्य राजा समरोद्धतोन्मुखं; कुमारमक्षं प्रसमैक्षताक्षतम्
स तस्य दृष्ट्यर्पणसंप्रचोदितः; प्रतापवान्काञ्चनचित्रकार्मुकः
समुत्पपाताथ सदस्युदीरितो; द्विजातिमुख्यैर्हविषेव पावकः
ततो महद्बालदिवाकरप्रभं; प्रतप्तजाम्बूनदजालसंततम्
रथां समास्थाय ययौ स वीर्यवा;न्महाहरिं तं प्रति नैरृतर्षभः
ततस्तपःसंग्रहसंचयार्जितं; प्रतप्तजाम्बूनदजालशोभितम्
पताकिनं रत्नविभूषितध्वजं; मनोजवाष्टाश्ववरैः सुयोजितम्
सुरासुराधृष्यमसंगचारिणं; रविप्रभं व्योमचरं समाहितम्
सतूणमष्टासिनिबद्धबन्धुरं; यथाक्रमावेशितशक्तितोमरम्
विराजमानं प्रतिपूर्णवस्तुना; सहेमदाम्ना शशिसूर्यवर्वसा
दिवाकराभं रथमास्थितस्ततः; स निर्जगामामरतुल्यविक्रमः
स पूरयन्खं च महीं च साचलां; तुरंगमतङ्गमहारथस्वनैः
बलैः समेतैः स हि तोरणस्थितं; समर्थमासीनमुपागमत्कपिम्
स तं समासाद्य हरिं हरीक्षणो; युगान्तकालाग्निमिव प्रजाक्षये
अवस्थितं विस्मितजातसंभ्रमः; समैक्षताक्षो बहुमानचक्षुषा
स तस्य वेगं च कपेर्महात्मनः; पराक्रमं चारिषु पार्थिवात्मजः
विचारयन्खं च बलं महाबलो; हिमक्षये सूर्य इवाभिवर्धते
स जातमन्युः प्रसमीक्ष्य विक्रमं; स्थिरः स्थितः संयति दुर्निवारणम्
समाहितात्मा हनुमन्तमाहवे; प्रचोदयामास शरैस्त्रिभिः शितैः
ततः कपिं तं प्रसमीक्ष्य गर्वितं; जितश्रमं शत्रुपराजयोर्जितम्
अवैक्षताक्षः समुदीर्णमानसः; सबाणपाणिः प्रगृहीतकार्मुकः
स हेमनिष्काङ्गदचारुकुण्डलः; समाससादाशु पराक्रमः कपिम्
तयोर्बभूवाप्रतिमः समागमः; सुरासुराणामपि संभ्रमप्रदः
ररास भूमिर्न तताप भानुमा;न्ववौ न वायुः प्रचचाल चाचलः
कपेः कुमारस्य च वीक्ष्य संयुगं; ननाद च द्यौरुदधिश्च चुक्षुभे
ततः स वीरः सुमुखान्पतत्रिणः; सुवर्णपुङ्खान्सविषानिवोरगान्
समाधिसंयोगविमोक्षतत्त्ववि;च्छरानथ त्रीन्कपिमूर्ध्न्यपातयत्
स तैः शरैर्मूर्ध्नि समं निपातितैः; क्षरन्नसृग्दिग्धविवृत्तलोचनः
नवोदितादित्यनिभः शरांशुमा;न्व्यराजतादित्य इवांशुमालिकः
ततः स पिङ्गाधिपमन्त्रिसत्तमः; समीक्ष्य तं राजवरात्मजं रणे
उदग्रचित्रायुधचित्रकार्मुकं; जहर्ष चापूर्यत चाहवोन्मुखः
स मन्दराग्रस्थ इवांशुमाली; विवृद्धकोपो बलवीर्यसंयुतः
कुमारमक्षं सबलं सवाहनं; ददाह नेत्राग्निमरीचिभिस्तदा
ततः स बाणासनशक्रकार्मुकः; शरप्रवर्षो युधि राक्षसाम्बुदः
शरान्मुमोचाशु हरीश्वराचले; बलाहको वृष्टिमिवाचलोत्तमे
ततः कपिस्तं रणचण्डविक्रमं; विवृद्धतेजोबलवीर्यसायकम्
कुमारमक्षं प्रसमीक्ष्य संयुगे; ननाद हर्षाद्घनतुल्यविक्रमः
स बालभावाद्युधि वीर्यदर्पितः; प्रवृद्धमन्युः क्षतजोपमेक्षणः
समाससादाप्रतिमं रणे कपिं; गजो महाकूपमिवावृतं तृणैः
स तेन बाणैः प्रसभं निपातितै;श्चकार नादं घननादनिःस्वनः
समुत्पपाताशु नभः स मारुति;र्भुजोरुविक्षेपण घोरदर्शनः
समुत्पतन्तं समभिद्रवद्बली; स राक्षसानां प्रवरः प्रतापवान्
रथी रथश्रेष्ठतमः किरञ्शरैः; पयोधरः शैलमिवाश्मवृष्टिभिः
स ताञ्शरांस्तस्य विमोक्षयन्कपि;श्चचार वीरः पथि वायुसेविते
शरान्तरे मारुतवद्विनिष्पत;न्मनोजवः संयति चण्डविक्रमः
तमात्तबाणासनमाहवोन्मुखं; खमास्तृणन्तं विविधैः शरोत्तमैः
अवैक्षताक्षं बहुमानचक्षुषा; जगाम चिन्तां च स मारुतात्मजः
ततः शरैर्भिन्नभुजान्तरः कपिः; कुमारवर्येण महात्मना नदन्
महाभुजः कर्मविशेषतत्त्ववि;द्विचिन्तयामास रणे पराक्रमम्
अबालवद्बालदिवाकरप्रभः; करोत्ययं कर्म महन्महाबलः
न चास्य सर्वाहवकर्मशोभिनः; प्रमापणे मे मतिरत्र जायते
अयं महात्मा च महांश्च वीर्यतः; समाहितश्चातिसहश्च संयुगे
असंशयं कर्मगुणोदयादयं; सनागयक्षैर्मुनिभिश्च पूजितः
पराक्रमोत्साहविवृद्धमानसः; समीक्षते मां प्रमुखागतः स्थितः
पराक्रमो ह्यस्य मनांसि कम्पये;त्सुरासुराणामपि शीघ्रकारिणः
न खल्वयं नाभिभवेदुपेक्षितः; पराक्रमो ह्यस्य रणे विवर्धते
प्रमापणं त्वेव ममास्य रोचते; न वर्धमानोऽग्निरुपेक्षितुं क्षमः
इति प्रवेगं तु परस्य तर्कय;न्स्वकर्मयोगं च विधाय वीर्यवान्
चकार वेगं तु महाबलस्तदा; मतिं च चक्रेऽस्य वधे महाकपिः