Sundarakanda, Sarga 44, Verse 1
हतान्मन्त्रिसुतान्बुद्ध्वा वानरेण महात्मना
रावणः संवृताकारश्चकार मतिमुत्तमाम्
Containing 39 sacred Sanskrit shlokas with multi-author commentaries and translations.
हतान्मन्त्रिसुतान्बुद्ध्वा वानरेण महात्मना
रावणः संवृताकारश्चकार मतिमुत्तमाम्
स विरूपाक्षयूपाक्षौ दुर्धरं चैव राक्षसं
प्रघसं भासकर्णं च पञ्चसेनाग्रनायकान्
संदिदेश दशग्रीवो वीरान्नयविशारदान्
हनूमद्ग्रहणे व्यग्रान्वायुवेगसमान्युधि
यात सेनाग्रगाः सर्वे महाबलपरिग्रहाः
सवाजिरथमातङ्गाः स कपिः शास्यतामिति
यत्तैश्च खलु भाव्यं स्यात्तमासाद्य वनालयम्
कर्म चापि समाधेयं देशकालविरोधितम्
न ह्यहं तं कपिं मन्ये कर्मणा प्रतितर्कयन्
सर्वथा तन्महद्भूतं महाबलपरिग्रहम्
भवेदिन्द्रेण वा सृष्टमस्मदर्थं तपोबलात्
सनागयक्षगन्धर्वा देवासुरमहर्षयः
युष्माभिः सहितैः सर्वैर्मया सह विनिर्जिताः
तैरवश्यं विधातव्यं व्यलीकं किंचिदेव नः
तदेव नात्र संदेहः प्रसह्य परिगृह्यताम्
नावमन्यो भवद्भिश्च हरिः क्रूरपराक्रमः
दृष्टा हि हरयः शीघ्रा मया विपुलविक्रमाः
वाली च सह सुग्रीवो जाम्बवांश्च महाबलः
नीलः सेनापतिश्चैव ये चान्ये द्विविदादयः
नैव तेषां गतिर्भीमा न तेजो न पराक्रमः
न मतिर्न बलोत्साहो न रूपपरिकल्पनम्
महत्सत्त्वमिदं ज्ञेयं कपिरूपं व्यवस्थितम्
प्रयत्नं महदास्थाय क्रियतामस्य निग्रहः
कामं लोकास्त्रयः सेन्द्राः ससुरासुरमानवाः
भवतामग्रतः स्थातुं न पर्याप्ता रणाजिरे
तथापि तु नयज्ञेन जयमाकाङ्क्षता रणे
आत्मा रक्ष्यः प्रयत्नेन युद्धसिद्धिर्हि चञ्चला
ते स्वामिवचनं सर्वे प्रतिगृह्य महौजसः
समुत्पेतुर्महावेगा हुताशसमतेजसः
रथैश्च मत्तैर्नागैश्च वाजिभिश्च महाजवैः
शस्त्रैश्च विविधैस्तीक्ष्णैः सर्वैश्चोपचिता बलैः
ततस्तं ददृशुर्वीरा दीप्यमानं महाकपिम्
रश्मिमन्तमिवोद्यन्तं स्वतेजोरश्मिमालिनम्
तोरणस्थं महावेगं महासत्त्वं महाबलम्
महामतिं महोत्साहं महाकायं महाबलम्
तं समीक्ष्यैव ते सर्वे दिक्षु सर्वास्ववस्थिताः
तैस्तैः प्रहरणैर्भीमैरभिपेतुस्ततस्ततः
तस्य पञ्चायसास्तीक्ष्णाः सिताः पीतमुखाः शराः
शिरस्त्युत्पलपत्राभा दुर्धरेण निपातिताः
स तैः पञ्चभिराविद्धः शरैः शिरसि वानरः
उत्पपात नदन्व्योम्नि दिशो दश विनादयन्
ततस्तु दुर्धरो वीरः सरथः सज्जकार्मुकः
किरञ्शरशतैर्नैकैरभिपेदे महाबलः
स कपिर्वारयामास तं व्योम्नि शरवर्षिणम्
वृष्टिमन्तं पयोदान्ते पयोदमिव मारुतः
अर्द्यमानस्ततस्तेन दुर्धरेणानिलात्मजः
चकार निनदं भूयो व्यवर्धत च वेगवान्
स दूरं सहसोत्पत्य दुर्धरस्य रथे हरिः
निपपात महावेगो विद्युद्राशिर्गिराविव
ततस्तं मथिताष्टाश्वं रथं भग्नाक्षकूवरम्
विहाय न्यपतद्भूमौ दुर्धरस्त्यक्तजीवितः
तं विरूपाक्षयूपाक्षौ दृष्ट्वा निपतितं भुवि
संजातरोषौ दुर्धर्षावुत्पेततुररिंदमौ
स ताभ्यां सहसोत्पत्य विष्ठितो विमलेऽम्बरे
मुद्गराभ्यां महाबाहुर्वक्षस्यभिहतः कपिः
तयोर्वेगवतोर्वेगं विनिहत्य महाबलः
निपपात पुनर्भूमौ सुपर्णसमविक्रमः
स सालवृक्षमासाद्य समुत्पाट्य च वानरः
तावुभौ राक्षसौ वीरौ जघान पवनात्मजः