Sundarakanda, Sarga 43, Verse 1
ततस्ते राक्षसेन्द्रेण चोदिता मन्त्रिणः सुताः
निर्ययुर्भवनात्तस्मात्सप्त सप्तार्चिवर्चसः
Containing 16 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततस्ते राक्षसेन्द्रेण चोदिता मन्त्रिणः सुताः
निर्ययुर्भवनात्तस्मात्सप्त सप्तार्चिवर्चसः
महाबलपरीवारा धनुष्मन्तो महाबलाः
कृतास्त्रास्त्रविदां श्रेष्ठाः परस्परजयैषिणः
हेमजालपरिक्षिप्तैर्ध्वजवद्भिः पताकिभिः
तोयदस्वननिर्घोषैर्वाजियुक्तैर्महारथैः
तप्तकाञ्चनचित्राणि चापान्यमितविक्रमाः
विस्फारयन्तः संहृष्टास्तडिद्वन्त इवाम्बुदाः
जनन्यस्तास्ततस्तेषां विदित्वा किंकरान्हतान्
बभूवुः शोकसंभ्रान्ताः सबान्धवसुहृज्जनाः
ते परस्परसंघर्षास्तप्तकाञ्चनभूषणाः
अभिपेतुर्हनूमन्तं तोरणस्थमवस्थितम्
सृजन्तो बाणवृष्टिं ते रथगर्जितनिःस्वनाः
वृष्टिमन्त इवाम्भोदा विचेरुर्नैरृतर्षभाः
अवकीर्णस्ततस्ताभिर्हनूमाञ्शरवृष्टिभिः
अभवत्संवृताकारः शैलराडिव वृष्टिभिः
स शरान्वञ्चयामास तेषामाशुचरः कपिः
रथवेगांश्च वीराणां विचरन्विमलेऽम्बरे
स तैः क्रीडन्धनुष्मद्भिर्व्योम्नि वीरः प्रकाशते
धनुष्मद्भिर्यथा मेघैर्मारुतः प्रभुरम्बरे
स कृत्वा निनदं घोरं त्रासयंस्तां महाचमूम्
चकार हनुमान्वेगं तेषु रक्षःसु वीर्यवान्
तलेनाभिहनत्कांश्चित्पादैः कांश्चित्परंतपः
मुष्टिनाभ्यहनत्कांश्चिन्नखैः कांश्चिद्व्यदारयत्
प्रममाथोरसा कांश्चिदूरुभ्यामपरान्कपिः
केचित्तस्यैव नादेन तत्रैव पतिता भुवि
ततस्तेष्ववपन्नेषु भूमौ निपतितेषु च
तत्सैन्यमगमत्सर्वं दिशो दशभयार्दितम्
विनेदुर्विस्वरं नागा निपेतुर्भुवि वाजिनः
भग्ननीडध्वजच्छत्रैर्भूश्च कीर्णाभवद्रथैः
स तान्प्रवृद्धान्विनिहत्य राक्षसा;न्महाबलश्चण्डपराक्रमः कपिः
युयुत्सुरन्यैः पुनरेव राक्षसै;स्तदेव वीरोऽभिजगाम तोरणम्