Sundarakanda, Sarga 41, Verse 1
ततः स किंकरान्हत्वा हनूमान्ध्यानमास्थितः
वनं भग्नं मया चैत्यप्रासादो न विनाशितः
तस्मात्प्रासादमप्येवमिमं विध्वंसयाम्यहम्
Containing 18 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततः स किंकरान्हत्वा हनूमान्ध्यानमास्थितः
वनं भग्नं मया चैत्यप्रासादो न विनाशितः
तस्मात्प्रासादमप्येवमिमं विध्वंसयाम्यहम्
इति संचिन्त्य हनुमान्मनसा दर्शयन्बलम्
चैत्यप्रासादमाप्लुत्य मेरुशृङ्गमिवोन्नतम्
आरुरोह हरिश्रेष्ठो हनूमान्मारुतात्मजः
संप्रधृष्य च दुर्धर्षश्चैत्यप्रासादमुन्नतम्
हनूमान्प्रज्वलँल्लक्ष्म्या पारियात्रोपमोऽभवत्
स भूत्वा तु महाकायो हनूमान्मारुतात्मजः
धृष्टमास्फोटयामास लङ्कां शब्देन पूरयन्
तस्यास्फोटितशब्देन महता श्रोत्रघातिना
पेतुर्विहंगा गगनादुच्चैश्चेदमघोषयत्
जयत्यतिबलो रामो लक्ष्मणश्च महाबलः
राजा जयति सुग्रीवो राघवेणाभिपालितः
दासोऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः
हनुमाञ्शत्रुसैन्यानां निहन्ता मारुतात्मजः
न रावणसहस्रं मे युद्धे प्रतिबलं भवेत्
शिलाभिस्तु प्रहरतः पादपैश्च सहस्रशः
अर्दयित्वा पुरीं लङ्कामभिवाद्य च मैथिलीम्
समृद्धार्थो गमिष्यामि मिषतां सर्वरक्षसाम्
एवमुक्त्वा विमानस्थश्चैत्यस्थान्हरिपुंगवः
ननाद भीमनिर्ह्रादो रक्षसां जनयन्भयम्
तेन शब्देन महता चैत्यपालाः शतं ययुः
गृहीत्वा विविधानस्त्रान्प्रासान्खड्गान्परश्वधान्
विसृजन्तो महाक्षया मारुतिं पर्यवारयन्
आवर्त इव गङ्गायास्तोयस्य विपुलो महान्
परिक्षिप्य हरिश्रेष्ठं स बभौ रक्षसां गणः
ततो वातात्मजः क्रुद्धो भीमरूपं समास्थितः
प्रासादस्य महांस्तस्य स्तम्भं हेमपरिष्कृतम्
उत्पाटयित्वा वेगेन हनूमान्मारुतात्मजः
ततस्तं भ्रामयामास शतधारं महाबलः
स राक्षसशतं हत्वा वज्रेणेन्द्र इवासुरान्
अन्तरिक्षस्थितः श्रीमानिदं वचनमब्रवीत्
मादृशानां सहस्राणि विसृष्टानि महात्मनाम्
बलिनां वानरेन्द्राणां सुग्रीववशवर्तिनाम्
शतैः शतसहस्रैश्च कोटीभिरयुतैरपि
आगमिष्यति सुग्रीवः सर्वेषां वो निषूदनः
नेयमस्ति पुरी लङ्का न यूयं न च रावणः
यस्मादिक्ष्वाकुनाथेन बद्धं वैरं महात्मना