Sundarakanda, Sarga 40, Verse 1
ततः पक्षिनिनादेन वृक्षभङ्गस्वनेन च
बभूवुस्त्राससंभ्रान्ताः सर्वे लङ्कानिवासिनः
Containing 36 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततः पक्षिनिनादेन वृक्षभङ्गस्वनेन च
बभूवुस्त्राससंभ्रान्ताः सर्वे लङ्कानिवासिनः
विद्रुताश्च भयत्रस्ता विनेदुर्मृगपक्षुणः
रक्षसां च निमित्तानि क्रूराणि प्रतिपेदिरे
ततो गतायां निद्रायां राक्षस्यो विकृताननाः
तद्वनं ददृशुर्भग्नं तं च वीरं महाकपिम्
स ता दृष्ट्व महाबाहुर्महासत्त्वो महाबलः
चकार सुमहद्रूपं राक्षसीनां भयावहम्
ततस्तं गिरिसंकाशमतिकायं महाबलम्
राक्षस्यो वानरं दृष्ट्वा पप्रच्छुर्जनकात्मजाम्
कोऽयं कस्य कुतो वायं किंनिमित्तमिहागतः
कथं त्वया सहानेन संवादः कृत इत्युत
आचक्ष्व नो विशालाक्षि मा भूत्ते सुभगे भयम्
संवादमसितापाङ्गे त्वया किं कृतवानयम्
अथाब्रवीत्तदा साध्वी सीता सर्वाङ्गशोभना
रक्षसां कामरूपाणां विज्ञाने मम का गतिः
यूयमेवास्य जानीत योऽयं यद्वा करिष्यति
अहिरेव अहेः पादान्विजानाति न संशयः
अहमप्यस्य भीतास्मि नैनं जानामि कोऽन्वयम्
वेद्मि राक्षसमेवैनं कामरूपिणमागतम्
वैदेह्या वचनं श्रुत्वा राक्षस्यो विद्रुता द्रुतम्
स्थिताः काश्चिद्गताः काश्चिद्रावणाय निवेदितुम्
रावणस्य समीपे तु राक्षस्यो विकृताननाः
विरूपं वानरं भीममाख्यातुमुपचक्रमुः
अशोकवनिका मध्ये राजन्भीमवपुः कपिः
सीतया कृतसंवादस्तिष्ठत्यमितविक्रमः
न च तं जानकी सीता हरिं हरिणलोचणा
अस्माभिर्बहुधा पृष्टा निवेदयितुमिच्छति
वासवस्य भवेद्दूतो दूतो वैश्रवणस्य वा
प्रेषितो वापि रामेण सीतान्वेषणकाङ्क्षया
तेन त्वद्भूतरूपेण यत्तत्तव मनोहरम्
नानामृगगणाकीर्णं प्रमृष्टं प्रमदावनम्
न तत्र कश्चिदुद्देशो यस्तेन न विनाशितः
यत्र सा जानकी सीता स तेन न विनाशितः
जानकीरक्षणार्थं वा श्रमाद्वा नोपलभ्यते
अथ वा कः श्रमस्तस्य सैव तेनाभिरक्षिता
चारुपल्लवपत्राढ्यं यं सीता स्वयमास्थिता
प्रवृद्धः शिंशपावृक्षः स च तेनाभिरक्षितः
तस्योग्ररूपस्योग्रं त्वं दण्डमाज्ञातुमर्हसि
सीता संभाषिता येन तद्वनं च विनाशितम्
मनःपरिगृहीतां तां तव रक्षोगणेश्वर
कः सीतामभिभाषेत यो न स्यात्त्यक्तजीवितः
राक्षसीनां वचः श्रुत्वा रावणो राक्षसेश्वरः
हुतागिरिव जज्वाल कोपसंवर्तितेक्षणः
आत्मनः सदृशाञ्शूरान्किंकरान्नाम राक्षसान्
व्यादिदेश महातेजा निग्रहार्थं हनूमतः
तेषामशीतिसाहस्रं किंकराणां तरस्विनाम्
निर्ययुर्भवनात्तस्मात्कूटमुद्गरपाणयः
महोदरा महादंष्ट्रा घोररूपा महाबलाः
युद्धाभिमनसः सर्वे हनूमद्ग्रहणोन्मुखाः
ते कपिं तं समासाद्य तोरणस्थमवस्थितम्
अभिपेतुर्महावेगाः पतङ्गा इव पावकम्
ते गदाभिर्विचित्राभिः परिघैः काञ्चनाङ्गदैः
आजघ्नुर्वानरश्रेष्ठं शरैरादित्यसंनिभैः
हनूमानपि तेजस्वी श्रीमान्पर्वतसंनिभः
क्षितावाविध्य लाङ्गूलं ननाद च महास्वनम्
तस्य संनादशब्देन तेऽभवन्भयशङ्किताः
ददृशुश्च हनूमन्तं संध्यामेघमिवोन्नतम्
स्वामिसंदेशनिःशङ्कास्ततस्ते राक्षसाः कपिम्
चित्रैः प्रहरणैर्भीमैरभिपेतुस्ततस्ततः