Sundarakanda, Sarga 39, Verse 1
स च वाग्भिः प्रशस्ताभिर्गमिष्यन्पूजितस्तया
तस्माद्देशादपक्रम्य चिन्तयामास वानरः
Containing 17 sacred Sanskrit shlokas with multi-author commentaries and translations.
स च वाग्भिः प्रशस्ताभिर्गमिष्यन्पूजितस्तया
तस्माद्देशादपक्रम्य चिन्तयामास वानरः
अल्पशेषमिदं कार्यं दृष्टेयमसितेक्षणा
त्रीनुपायानतिक्रम्य चतुर्थ इह दृश्यते
न साम रक्षःसु गुणाय कल्पते; न दनमर्थोपचितेषु वर्तते
न भेदसाध्या बलदर्पिता जनाः; पराक्रमस्त्वेष ममेह रोचते
न चास्य कार्यस्य पराक्रमादृते; विनिश्चयः कश्चिदिहोपपद्यते
हृतप्रवीरास्तु रणे हि राक्षसाः; कथंचिदीयुर्यदिहाद्य मार्दवम्
कार्ये कर्मणि निर्दिष्टो यो बहून्यपि साधयेत्
पूर्वकार्यविरोधेन स कार्यं कर्तुमर्हति
न ह्येकः साधको हेतुः स्वल्पस्यापीह कर्मणः
यो ह्यर्थं बहुधा वेद स समर्थोऽर्थसाधने
इहैव तावत्कृतनिश्चयो ह्यहं; यदि व्रजेयं प्लवगेश्वरालयम्
परात्मसंमर्द विशेषतत्त्ववि;त्ततः कृतं स्यान्मम भर्तृशासनम्
कथं नु खल्वद्य भवेत्सुखागतं; प्रसह्य युद्धं मम राक्षसैः सह
तथैव खल्वात्मबलं च सारव;त्समानयेन्मां च रणे दशाननः
इदमस्य नृशंसस्य नन्दनोपममुत्तमम्
वनं नेत्रमनःकान्तं नानाद्रुमलतायुतम्
इदं विध्वंसयिष्यामि शुष्कं वनमिवानलः
अस्मिन्भग्ने ततः कोपं करिष्यति स रावणः
ततो महत्साश्वमहारथद्विपं; बलं समानेष्वपि राक्षसाधिपः
त्रिशूलकालायसपट्टिशायुधं; ततो महद्युद्धमिदं भविष्यति
अहं तु तैः संयति चण्डविक्रमैः; समेत्य रक्षोभिरसंगविक्रमः
निहत्य तद्रावणचोदितं बलं; सुखं गमिष्यामि कपीश्वरालयम्
ततो मारुतवत्क्रुद्धो मारुतिर्भीमविक्रमः
ऊरुवेगेन महता द्रुमान्क्षेप्तुमथारभत्
ततस्तद्धनुमान्वीरो बभञ्ज प्रमदावनम्
मत्तद्विजसमाघुष्टं नानाद्रुमलतायुतम्
तद्वनं मथितैर्वृक्षैर्भिन्नैश्च सलिलाशयैः
चूर्णितैः पर्वताग्रैश्च बभूवाप्रियदर्शनम्
लतागृहैश्चित्रगृहैश्च नाशितै;र्महोरगैर्व्यालमृगैश्च निर्धुतैः
शिलागृहैरुन्मथितैस्तथा गृहैः; प्रनष्टरूपं तदभून्महद्वनम्
स तस्य कृत्वार्थपतेर्महाकपि;र्महद्व्यलीकं मनसो महात्मनः
युयुत्सुरेको बहुभिर्महाबलैः; श्रिया ज्वलंस्तोरणमाश्रितः कपिः