Sundarakanda, Sarga 38, Verse 1
श्रुत्वा तु वचनं तस्य वायुसूनोर्महात्मनः
उवाचात्महितं वाक्यं सीता सुरसुतोपमा
Containing 24 sacred Sanskrit shlokas with multi-author commentaries and translations.
श्रुत्वा तु वचनं तस्य वायुसूनोर्महात्मनः
उवाचात्महितं वाक्यं सीता सुरसुतोपमा
त्वां दृष्ट्वा प्रियवक्तारं संप्रहृष्यामि वानर
अर्धसंजातसस्येव वृष्टिं प्राप्य वसुंधरा
यथा तं पुरुषव्याघ्रं गात्रैः शोकाभिकर्शितैः
संस्पृशेयं सकामाहं तथा कुरु दयां मयि
अभिज्ञानं च रामस्य दत्तं हरिगणोत्तम
क्षिप्तामीषिकां काकस्य कोपादेकाक्षिशातनीम्
मनःशिलायास्तिकलो गण्डपार्श्वे निवेशितः
त्वया प्रनष्टे तिलके तं किल स्मर्तुमर्हसि
स वीर्यवान्कथं सीतां हृतां समनुमन्यसे
वसन्तीं रक्षसां मध्ये महेन्द्रवरुणोपम
एष चूडामणिर्दिव्यो मया सुपरिरक्षितः
एतं दृष्ट्वा प्रहृष्यामि व्यसने त्वामिवानघ
एष निर्यातितः श्रीमान्मया ते वारिसंभवः
अतः परं न शक्ष्यामि जीवितुं शोकलालसा
असह्यानि च दुःखानि वाचश्च हृदयच्छिदः
राक्षसीनां सुघोराणां त्वत्कृते मर्षयाम्यहम्
धारयिष्यामि मासं तु जीवितं शत्रुसूदन
मासादूर्ध्वं न जीविष्ये त्वया हीना नृपात्मज
घोरो राक्षसराजोऽयं दृष्टिश्च न सुखा मयि
त्वां च श्रुत्वा विपद्यन्तं न जीवेयमहं क्षणम्
वैदेह्या वचनं श्रुत्वा करुणं साश्रुभाषितम्
अथाब्रवीन्महातेजा हनुमान्मारुतात्मजः
त्वच्छोकविमुखो रामो देवि सत्येन ते शपे
रामे शोकाभिभूते तु लक्ष्मणः परितप्यते
दृष्टा कथंचिद्भवती न कालः परिशोचितुम्
इमं मुहूर्तं दुःखानामन्तं द्रक्ष्यसि भामिनि
तावुभौ पुरुषव्याघ्रौ राजपुत्रावनिन्दितौ
त्वद्दर्शनकृतोत्साहौ लङ्कां भस्मीकरिष्यतः
हत्वा तु समरे क्रूरं रावणं सह बान्धवम्
राघवौ त्वां विशालाक्षि स्वां पुरीं प्रापयिष्यतः
यत्तु रामो विजानीयादभिज्ञानमनिन्दिते
प्रीतिसंजननं तस्य भूयस्त्वं दातुमर्हसि
साब्रवीद्दत्तमेवेह मयाभिज्ञानमुत्तमम्
एतदेव हि रामस्य दृष्ट्वा मत्केशभूषणम्
श्रद्धेयं हनुमन्वाक्यं तव वीर भविष्यति
स तं मणिवरं गृह्य श्रीमान्प्लवगसत्तमः
प्रणम्य शिरसा देवीं गमनायोपचक्रमे
तमुत्पातकृतोत्साहमवेक्ष्य हरिपुंगवम्
वर्धमानं महावेगमुवाच जनकात्मजा
अश्रुपूर्णमुखी दीना बाष्पगद्गदया गिरा
हनूमन्सिंहसंकाशौ भ्रातरौ रामलक्ष्मणौ
सुग्रीवं च सहामात्यं सर्वान्ब्रूया अनामयम्
यथा च स महाबाहुर्मां तारयति राघवः
अस्माद्दुःखाम्बुसंरोधात्तत्समाधातुमर्हसि
इमं च तीव्रं मम शोकवेगं; रक्षोभिरेभिः परिभर्त्सनं च
ब्रूयास्तु रामस्य गतः समीपं; शिवश्च तेऽध्वास्तु हरिप्रवीर
स राजपुत्र्या प्रतिवेदितार्थः; कपिः कृतार्थः परिहृष्टचेताः
तदल्पशेषं प्रसमीक्ष्य कार्यं; दिशं ह्युदीचीं मनसा जगाम