Sundarakanda, Sarga 37, Verse 1
मणिं दत्त्वा ततः सीता हनूमन्तमथाब्रवीत्
अभिज्ञानमभिज्ञातमेतद्रामस्य तत्त्वतः
Containing 53 sacred Sanskrit shlokas with multi-author commentaries and translations.
मणिं दत्त्वा ततः सीता हनूमन्तमथाब्रवीत्
अभिज्ञानमभिज्ञातमेतद्रामस्य तत्त्वतः
मणिं तु दृष्ट्वा रामो वै त्रयाणां संस्मरिष्यति
वीरो जनन्या मम च राज्ञो दशरथस्य च
स भूयस्त्वं समुत्साहे चोदितो हरिसत्तम
अस्मिन्कार्यसमारम्भे प्रचिन्तय यदुत्तरम्
त्वमस्मिन्कार्यनिर्योगे प्रमाणं हरिसत्तम
तस्य चिन्तय यो यत्नो दुःखक्षयकरो भवेत्
स तथेति प्रतिज्ञाय मारुतिर्भीमविक्रमः
शिरसावन्द्य वैदेहीं गमनायोपचक्रमे
ज्ञात्वा संप्रस्थितं देवी वानरं मारुतात्मजम्
बाष्पगद्गदया वाचा मैथिली वाक्यमब्रवीत्
कुशलं हनुमन्ब्रूयाः सहितौ रामलक्ष्मणौ
सुग्रीवं च सहामात्यं वृद्धान्सर्वांश्च वानरान्
यथा च स महाबाहुर्मां तारयति राघवः
अस्माद्दुःखाम्बुसंरोधात्त्वं समाधातुमर्हसि
जीवन्तीं मां यथा रामः संभावयति कीर्तिमान्
तत्त्वया हनुमन्वाच्यं वाचा धर्ममवाप्नुहि
नित्यमुत्साहयुक्ताश्च वाचः श्रुत्वा मयेरिताः
वर्धिष्यते दाशरथेः पौरुषं मदवाप्तये
मत्संदेशयुता वाचस्त्वत्तः श्रुत्वैव राघवः
पराक्रमविधिं वीरो विधिवत्संविधास्यति
सीतायास्तद्वचः श्रुत्वा हनुमान्मारुतात्मजः
शिरस्यञ्जलिमाधाय वाक्यमुत्तरमब्रवीत्
क्षिप्रमेष्यति काकुत्स्थो हर्यृक्षप्रवरैर्वृतः
यस्ते युधि विजित्यारीञ्शोकं व्यपनयिष्यति
न हि पश्यामि मर्त्येषु नामरेष्वसुरेषु वा
यस्तस्य वमतो बाणान्स्थातुमुत्सहतेऽग्रतः
अप्यर्कमपि पर्जन्यमपि वैवस्वतं यमम्
स हि सोढुं रणे शक्तस्तवहेतोर्विशेषतः
स हि सागरपर्यन्तां महीं शासितुमीहते
त्वन्निमित्तो हि रामस्य जयो जनकनन्दिनि
तस्य तद्वचनं श्रुत्वा सम्यक्सत्यं सुभाषितम्
जानकी बहु मेनेऽथ वचनं चेदमब्रवीत्
ततस्तं प्रस्थितं सीता वीक्षमाणा पुनः पुनः
भर्तुः स्नेहान्वितं वाक्यं सौहार्दादनुमानयत्
यदि वा मन्यसे वीर वसैकाहमरिंदम
कस्मिंश्चित्संवृते देशे विश्रान्तः श्वो गमिष्यसि
मम चेदल्पभाग्यायाः साम्निध्यात्तव वीर्यवान्
अस्य शोकस्य महतो मुहूर्तं मोक्षणं भवेत्
गते हि हरिशार्दूल पुनरागमनाय तु
प्राणानामपि संदेहो मम स्यान्नात्र संशयः
तवादर्शनजः शोको भूयो मां परितापयेत्
दुःखाद्दुःखपरामृष्टां दीपयन्निव वानर
अयं च वीर संदेहस्तिष्ठतीव ममाग्रतः
सुमहांस्त्वत्सहायेषु हर्यृक्षेषु हरीश्वर
कथं नु खलु दुष्पारं तरिष्यन्ति महोदधिम्
तानि हर्यृक्षसैन्यानि तौ वा नरवरात्मजौ
त्रयाणामेव भूतानां सागरस्येह लङ्घने
शक्तिः स्याद्वैनतेयस्य तव वा मारुतस्य वा
तदस्मिन्कार्यनिर्योगे वीरैवं दुरतिक्रमे
किं पश्यसि समाधानं त्वं हि कार्यविदां वरः
काममस्य त्वमेवैकः कार्यस्य परिसाधने
पर्याप्तः परवीरघ्न यशस्यस्ते बलोदयः
बलैः समग्रैर्यदि मां रावणं जित्य संयुगे
विजयी स्वपुरं यायात्तत्तु मे स्याद्यशस्करम्
बलैस्तु संकुलां कृत्वा लङ्कां परबलार्दनः
मां नयेद्यदि काकुत्स्थस्तत्तस्य सदृशं भवेत्
तद्यथा तस्य विक्रान्तमनुरूपं महात्मनः
भवेदाहव शूरस्य तथा त्वमुपपादय