Sundarakanda, Sarga 36, Verse 1
ततः स कपिशार्दूलस्तेन वाक्येन हर्षितः
सीतामुवाच तच्छ्रुत्वा वाक्यं वाक्यविशारदः
Containing 56 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततः स कपिशार्दूलस्तेन वाक्येन हर्षितः
सीतामुवाच तच्छ्रुत्वा वाक्यं वाक्यविशारदः
युक्तरूपं त्वया देवि भाषितं शुभदर्शने
सदृशं स्त्रीस्वभावस्य साध्वीनां विनयस्य च
स्त्रीत्वं न तु समर्थं हि सागरं व्यतिवर्तितुम्
मामधिष्ठाय विस्तीर्णं शतयोजनमायतम्
द्वितीयं कारणं यच्च ब्रवीषि विनयान्विते
रामादन्यस्य नार्हामि संस्पर्शमिति जानकि
एतत्ते देवि सदृशं पत्न्यास्तस्य महात्मनः
का ह्यन्या त्वामृते देवि ब्रूयाद्वचनमीदृशम्
श्रोष्यते चैव काकुत्स्थः सर्वं निरवशेषतः
चेष्टितं यत्त्वया देवि भाषितं मम चाग्रतः
कारणैर्बहुभिर्देवि राम प्रियचिकीर्षया
स्नेहप्रस्कन्नमनसा मयैतत्समुदीरितम्
लङ्काया दुष्प्रवेशत्वाद्दुस्तरत्वान्महोदधेः
सामर्थ्यादात्मनश्चैव मयैतत्समुदाहृतम्
इच्छामि त्वां समानेतुमद्यैव रघुबन्धुना
गुरुस्नेहेन भक्त्या च नान्यथा तदुदाहृतम्
यदि नोत्सहसे यातुं मया सार्धमनिन्दिते
अभिज्ञानं प्रयच्छ त्वं जानीयाद्राघवो हि यत्
एवमुक्ता हनुमता सीता सुरसुतोपमा
उवाच वचनं मन्दं बाष्पप्रग्रथिताक्षरम्
इदं श्रेष्ठमभिज्ञानं ब्रूयास्त्वं तु मम प्रियम्
शैलस्य चित्रकूटस्य पादे पूर्वोत्तरे तदा
तापसाश्रमवासिन्याः प्राज्यमूलफलोदके
तस्मिन्सिद्धाश्रमे देशे मन्दाकिन्या अदूरतः
तस्योपवनषण्डेषु नानापुष्पसुगन्धिषु
विहृत्य सलिलक्लिन्ना तवाङ्के समुपाविशम्
पर्यायेण प्रसुप्तश्च ममाङ्के भरताग्रजः
ततो मांससमायुक्तो वायसः पर्यतुण्डयत्
तमहं लोष्टमुद्यम्य वारयामि स्म वायसं
दारयन्स च मां काकस्तत्रैव परिलीयते
न चाप्युपरमन्मांसाद्भक्षार्थी बलिभोजनः
उत्कर्षन्त्यां च रशनां क्रुद्धायां मयि पक्षिणे
स्रंसमाने च वसने ततो दृष्टा त्वया ह्यहम्
त्वया विहसिता चाहं क्रुद्धा संलज्जिता तदा
भक्ष्य गृद्धेन कालेन दारिता त्वामुपागता
आसीनस्य च ते श्रान्ता पुनरुत्सङ्गमाविशम्
क्रुध्यन्ती च प्रहृष्टेन त्वयाहं परिसान्त्विता
बाष्पपूर्णमुखी मन्दं चक्षुषी परिमार्जती
लक्षिताहं त्वया नाथ वायसेन प्रकोपिता
आशीविष इव क्रुद्धः श्वसान्वाक्यमभाषथाः
केन ते नागनासोरु विक्षतं वै स्तनान्तरम्
कः क्रीडति सरोषेण पञ्चवक्त्रेण भोगिना
वीक्षमाणस्ततस्तं वै वायसं समवैक्षथाः
नखैः सरुधिरैस्तीक्ष्णैर्मामेवाभिमुखं स्थितम्
पुत्रः किल स शक्रस्य वायसः पततां वरः
धरान्तरचरः शीघ्रं पवनस्य गतौ समः
ततस्तस्मिन्महाबाहुः कोपसंवर्तितेक्षणः
वायसे कृतवान्क्रूरां मतिं मतिमतां वर
स दर्भसंस्तराद्गृह्य ब्रह्मणोऽस्त्रेण योजयः
स दीप्त इव कालाग्निर्जज्वालाभिमुखो द्विजम्
चिक्षेपिथ प्रदीप्तां तामिषीकां वायसं प्रति
अनुसृष्टस्तदा कालो जगाम विविधां गतिम्
त्राणकाम इमं लोकं सर्वं वै विचचार ह
स पित्रा च परित्यक्तः सुरैः सर्वैर्महर्षिभिः
त्रीँल्लोकान्संपरिक्रम्य त्वामेव शरणं गतः
तं त्वं निपतितं भूमौ शरण्यः शरणागतम्
वधार्हमपि काकुत्स्थ कृपया पर्यपालयः
न शर्म लब्ध्वा लोकेषु त्वामेव शरणं गतः
परिद्यूनं विषण्णं च स त्वमायान्तमुक्तवान्
मोघं कर्तुं न शक्यं तु ब्राह्ममस्त्रं तदुच्यताम्