Sundarakanda, Sarga 35, Verse 1
सीता तद्वचनं श्रुत्वा पूर्णचन्द्रनिभानना
हनूमन्तमुवाचेदं धर्मार्थसहितं वचः
Containing 68 sacred Sanskrit shlokas with multi-author commentaries and translations.
सीता तद्वचनं श्रुत्वा पूर्णचन्द्रनिभानना
हनूमन्तमुवाचेदं धर्मार्थसहितं वचः
अमृतं विषसंसृष्टं त्वया वानरभाषितम्
यच्च नान्यमना रामो यच्च शोकपरायणः
ऐश्वर्ये वा सुविस्तीर्णे व्यसने वा सुदारुणे
रज्ज्वेव पुरुषं बद्ध्वा कृतान्तः परिकर्षति
विधिर्नूनमसंहार्यः प्राणिनां प्लवगोत्तम
सौमित्रिं मां च रामं च व्यसनैः पश्य मोहितान्
शोकस्यास्य कदा पारं राघवोऽधिगमिष्यति
प्लवमानः परिश्रान्तो हतनौः सागरे यथा
राक्षसानां क्षयं कृत्वा सूदयित्वा च रावणम्
लङ्कामुन्मूलितां कृत्वा कदा द्रक्ष्यति मां पतिः
स वाच्यः संत्वरस्वेति यावदेव न पूर्यते
अयं संवत्सरः कालस्तावद्धि मम जीवितम्
वर्तते दशमो मासो द्वौ तु शेषौ प्लवंगम
रावणेन नृशंसेन समयो यः कृतो मम
विभीषणेन च भ्रात्रा मम निर्यातनं प्रति
अनुनीतः प्रयत्नेन न च तत्कुरुते मतिम्
मम प्रतिप्रदानं हि रावणस्य न रोचते
रावणं मार्गते संख्ये मृत्युः कालवशं गतम्
ज्येष्ठा कन्यानला नम विभीषणसुता कपे
तया ममैतदाख्यातं मात्रा प्रहितया स्वयम्
अविन्ध्यो नाम मेधावी विद्वान्राक्षसपुंगवः
धृतिमाञ्शीलवान्वृद्धो रावणस्य सुसंमतः
रामात्क्षयमनुप्राप्तं रक्षसां प्रत्यचोदयत्
न च तस्यापि दुष्टात्मा शृणोति वचनं हितम्
आशंसेति हरिश्रेष्ठ क्षिप्रं मां प्राप्स्यते पतिः
अन्तरात्मा हि मे शुद्धस्तस्मिंश्च बहवो गुणाः
उत्साहः पौरुषं सत्त्वमानृशंस्यं कृतज्ञता
विक्रमश्च प्रभावश्च सन्ति वानरराघवे
चतुर्दशसहस्राणि राक्षसानां जघान यः
जनस्थाने विना भ्रात्रा शत्रुः कस्तस्य नोद्विजेत्
न स शक्यस्तुलयितुं व्यसनैः पुरुषर्षभः
अहं तस्यानुभावज्ञा शक्रस्येव पुलोमजा
शरजालांशुमाञ्शूरः कपे रामदिवाकरः
शत्रुरक्षोमयं तोयमुपशोषं नयिष्यति
इति संजल्पमानां तां रामार्थे शोककर्शिताम्
अश्रुसंपूर्णवदनामुवाच हनुमान्कपिः
श्रुत्वैव तु वचो मह्यं क्षिप्रमेष्यति राघवः
चमूं प्रकर्षन्महतीं हर्यृक्षगणसंकुलाम्
अथ वा मोचयिष्यामि तामद्यैव हि राक्षसात्
अस्माद्दुःखादुपारोह मम पृष्ठमनिन्दिते
त्वं हि पृष्ठगतां कृत्वा संतरिष्यामि सागरम्
शक्तिरस्ति हि मे वोढुं लङ्कामपि सरावणाम्
अहं प्रस्रवणस्थाय राघवायाद्य मैथिलि
प्रापयिष्यामि शक्राय हव्यं हुतमिवानलः
द्रक्ष्यस्यद्यैव वैदेहि राघवं सहलक्ष्मणम्
व्यवसाय समायुक्तं विष्णुं दैत्यवधे यथा
त्वद्दर्शनकृतोत्साहमाश्रमस्थं महाबलम्
पुरंदरमिवासीनं नागराजस्य मूर्धनि
पृष्ठमारोह मे देवि मा विकाङ्क्षस्व शोभने
योगमन्विच्छ रामेण शशाङ्केनेव रोहिणी
कथयन्तीव चन्द्रेण सूर्येणेव सुवर्चला
मत्पृष्ठमधिरुह्य त्वं तराकाशमहार्णवम्
न हि मे संप्रयातस्य त्वामितो नयतोऽङ्गने
अनुगन्तुं गतिं शक्ताः सर्वे लङ्कानिवासिनः
यथैवाहमिह प्राप्तस्तथैवाहमसंशयम्
यास्यामि पश्य वैदेहि त्वामुद्यम्य विहायसं
मैथिली तु हरिश्रेष्ठाच्छ्रुत्वा वचनमद्भुतम्
हर्षविस्मितसर्वाङ्गी हनूमन्तमथाब्रवीत्