Sundarakanda, Sarga 34, Verse 1
भूय एव महातेजा हनूमान्मारुतात्मजः
अब्रवीत्प्रश्रितं वाक्यं सीताप्रत्ययकारणात्
Containing 45 sacred Sanskrit shlokas with multi-author commentaries and translations.
भूय एव महातेजा हनूमान्मारुतात्मजः
अब्रवीत्प्रश्रितं वाक्यं सीताप्रत्ययकारणात्
वानरोऽहं महाभागे दूतो रामस्य धीमतः
रामनामाङ्कितं चेदं पश्य देव्यङ्गुलीयकम्
समाश्वसिहि भद्रं ते क्षीणदुःखफला ह्यसि
गृहीत्वा प्रेक्षमाणा सा भर्तुः करविभूषणम्
भर्तारमिव संप्राप्ता जानकी मुदिताभवत्
चारु तद्वदनं तस्यास्ताम्रशुक्लायतेक्षणम्
बभूव प्रहर्षोदग्रं राहुमुक्त इवोडुराट्
ततः सा ह्रीमती बाला भर्तुः संदेशहर्षिता
परितुट्षा प्रियं श्रुत्वा प्राशंसत महाकपिम्
विक्रान्तस्त्वं समर्थस्त्वं प्राज्ञस्त्वं वानरोत्तम
येनेदं राक्षसपदं त्वयैकेन प्रधर्षितम्
शतयोजनविस्तीर्णः सागरो मकरालयः
विक्रमश्लाघनीयेन क्रमता गोष्पदीकृतः
न हि त्वां प्राकृतं मन्ये वनरं वनरर्षभ
यस्य ते नास्ति संत्रासो रावणान्नापि संभ्रमः
अर्हसे च कपिश्रेष्ठ मया समभिभाषितुम्
यद्यसि प्रेषितस्तेन रामेण विदितात्मना
प्रेषयिष्यति दुर्धर्षो रामो न ह्यपरीक्षितम्
पराक्रममविज्ञाय मत्सकाशं विशेषतः
दिष्ट्या च कुशली रामो धर्मात्मा धर्मवत्सलः
लक्ष्मणश्च महातेजाः सुमित्रानन्दवर्धनः
कुशली यदि काकुत्स्थः किं नु सागरमेखलाम्
महीं दहति कोपेन युगान्ताग्निरिवोत्थितः
अथ वा शक्तिमन्तौ तौ सुराणामपि निग्रहे
ममैव तु न दुःखानामस्ति मन्ये विपर्ययः
कच्चिच्च व्यथते रामः कच्चिन्न परिपत्यते
उत्तराणि च कार्याणि कुरुते पुरुषोत्तमः
कच्चिन्न दीनः संभ्रान्तः कार्येषु च न मुह्यति
कच्चिन्पुरुषकार्याणि कुरुते नृपतेः सुतः
द्विविधं त्रिविधोपायमुपायमपि सेवते
विजिगीषुः सुहृत्कच्चिन्मित्रेषु च परंतपः
कच्चिन्मित्राणि लभते मित्रैश्चाप्यभिगम्यते
कच्चित्कल्याणमित्रश्च मित्रैश्चापि पुरस्कृतः
कच्चिदाशास्ति देवानां प्रसादं पार्थिवात्मजः
कच्चित्पुरुषकारं च दैवं च प्रतिपद्यते
कच्चिन्न विगतस्नेहो विवासान्मयि राघवः
कच्चिन्मां व्यसनादस्मान्मोक्षयिष्यति वानरः
सुखानामुचितो नित्यमसुखानामनूचितः
दुःखमुत्तरमासाद्य कच्चिद्रामो न सीदति
कौसल्यायास्तथा कच्चित्सुमित्रायास्तथैव च
अभीक्ष्णं श्रूयते कच्चित्कुशलं भरतस्य च
मन्निमित्तेन मानार्हः कच्चिच्छोकेन राघवः
कच्चिन्नान्यमना रामः कच्चिन्मां तारयिष्यति
कच्चिदक्षौहिणीं भीमां भरतो भ्रातृवत्सलः
ध्वजिनीं मन्त्रिभिर्गुप्तां प्रेषयिष्यति मत्कृते
वानराधिपतिः श्रीमान्सुग्रीवः कच्चिदेष्यति
मत्कृते हरिभिर्वीरैर्वृतो दन्तनखायुधैः
कच्चिच्च लक्ष्मणः शूरः सुमित्रानन्दवर्धनः
अस्त्रविच्छरजालेन राक्षसान्विधमिष्यति
रौद्रेण कच्चिदस्त्रेण रामेण निहतं रणे
द्रक्ष्याम्यल्पेन कालेन रावणं ससुहृज्जनम्
कच्चिन्न तद्धेमसमानवर्णं; तस्याननं पद्मसमानगन्धि
मया विना शुष्यति शोकदीनं; जलक्षये पद्ममिवातपेन
धर्मापदेशात्त्यजतश्च राज्यां; मां चाप्यरण्यं नयतः पदातिम्
नासीद्व्यथा यस्य न भीर्न शोकः; कच्चित्स धैर्यं हृदये करोति
न चास्य माता न पिता न चान्यः; स्नेहाद्विशिष्टोऽस्ति मया समो वा
तावद्ध्यहं दूतजिजीविषेयं; यावत्प्रवृत्तिं शृणुयां प्रियस्य
इतीव देवी वचनं महार्थं; तं वानरेन्द्रं मधुरार्थमुक्त्वा
श्रोतुं पुनस्तस्य वचोऽभिरामं; रामार्थयुक्तं विरराम रामा