Sundarakanda, Sarga 33, Verse 1
तां तु राम कथां श्रुत्वा वैदेही वानरर्षभात्
उवाच वचनं सान्त्वमिदं मधुरया गिरा
Containing 80 sacred Sanskrit shlokas with multi-author commentaries and translations.
तां तु राम कथां श्रुत्वा वैदेही वानरर्षभात्
उवाच वचनं सान्त्वमिदं मधुरया गिरा
क्व ते रामेण संसर्गः कथं जानासि लक्ष्मणम्
वानराणां नराणां च कथमासीत्समागमः
यानि रामस्य लिङ्गानि लक्ष्मणस्य च वानर
तानि भूयः समाचक्ष्व न मां शोकः समाविशेत्
कीदृशं तस्य संस्थानं रूपं रामस्य कीदृशम्
कथमूरू कथं बाहू लक्ष्मणस्य च शंस मे
एवमुक्तस्तु वैदेह्या हनूमान्मारुतात्मजः
ततो रामं यथातत्त्वमाख्यातुमुपचक्रमे
जानन्ती बत दिष्ट्या मां वैदेहि परिपृच्छसि
भर्तुः कमलपत्राक्षि संख्यानं लक्ष्मणस्य च
यानि रामस्य चिह्नानि लक्ष्मणस्य च यानि वै
लक्षितानि विशालाक्षि वदतः शृणु तानि मे
रामः कमलपत्राक्षः सर्वभूतमनोहरः
रूपदाक्षिण्यसंपन्नः प्रसूतो जनकात्मजे
तेजसादित्यसंकाशः क्षमया पृथिवीसमः
बृहस्पतिसमो बुद्ध्या यशसा वासवोपमः
रक्षिता जीवलोकस्य स्वजनस्य च रक्षिता
रक्षिता स्वस्य वृत्तस्य धर्मस्य च परंतपः
रामो भामिनि लोकस्य चातुर्वर्ण्यस्य रक्षिता
मर्यादानां च लोकस्य कर्ता कारयिता च सः
अर्चिष्मानर्चितोऽत्यर्थं ब्रह्मचर्यव्रते स्थितः
साधूनामुपकारज्ञः प्रचारज्ञश्च कर्मणाम्
राजविद्याविनीतश्च ब्राह्मणानामुपासिता
श्रुतवाञ्शीलसंपन्नो विनीतश्च परंतपः
यजुर्वेदविनीतश्च वेदविद्भिः सुपूजितः
धनुर्वेदे च वेदे च वेदाङ्गेषु च निष्ठितः
विपुलांसो महाबाहुः कम्बुग्रीवः शुभाननः
गूढजत्रुः सुताम्राक्षो रामो देवि जनैः श्रुतः
दुन्दुभिस्वननिर्घोषः स्निग्धवर्णः प्रतापवान्
समः समविभक्ताङ्गो वर्णं श्यामं समाश्रितः
त्रिस्थिरस्त्रिप्रलम्बश्च त्रिसमस्त्रिषु चोन्नतः
त्रिवलीवांस्त्र्यवणतश्चतुर्व्यङ्गस्त्रिशीर्षवान्
चतुष्कलश्चतुर्लेखश्चतुष्किष्कुश्चतुःसमः
चतुर्दशसमद्वन्द्वश्चतुर्दष्टश्चतुर्गतिः
महौष्ठहनुनासश्च पञ्चस्निग्धोऽष्टवंशवान्
दशपद्मो दशबृहत्त्रिभिर्व्याप्तो द्विशुक्लवान्
षडुन्नतो नवतनुस्त्रिभिर्व्याप्नोति राघवः
सत्यधर्मपरः श्रीमान्संग्रहानुग्रहे रतः
देशकालविभागज्ञः सर्वलोकप्रियंवदः
भ्राता च तस्य द्वैमात्रः सौमित्रिरपराजितः
अनुरागेण रूपेण गुणैश्चैव तथाविधः
त्वामेव मार्गमाणो तौ विचरन्तौ वसुंधराम्
ददर्शतुर्मृगपतिं पूर्वजेनावरोपितम्
ऋश्यमूकस्य पृष्ठे तु बहुपादपसंकुले
भ्रातुर्भार्यार्तमासीनं सुग्रीवं प्रियदर्शनम्
वयं तु हरिराजं तं सुग्रीवं सत्यसंगरम्
परिचर्यामहे राज्यात्पूर्वजेनावरोपितम्
ततस्तौ चीरवसनौ धनुःप्रवरपाणिनौ
ऋश्यमूकस्य शैलस्य रम्यं देशमुपागतौ
स तौ दृष्ट्वा नरव्याघ्रौ धन्विनौ वानरर्षभः
अभिप्लुतो गिरेस्तस्य शिखरं भयमोहितः
ततः स शिखरे तस्मिन्वानरेन्द्रो व्यवस्थितः
तयोः समीपं मामेव प्रेषयामास सत्वरः
तावहं पुरुषव्याघ्रौ सुग्रीववचनात्प्रभू
रूपलक्षणसंपन्नौ कृताञ्जलिरुपस्थितः
तौ परिज्ञाततत्त्वार्थौ मया प्रीतिसमन्वितौ
पृष्ठमारोप्य तं देशं प्रापितौ पुरुषर्षभौ
निवेदितौ च तत्त्वेन सुग्रीवाय महात्मने
तयोरन्योन्यसंभाषाद्भृशं प्रीतिरजायत