Sundarakanda, Sarga 32, Verse 1
तस्यास्तद्वचनं श्रुत्वा हनूमान्हरियूथपः
दुःखाद्दुःखाभिभूतायाः सान्तमुत्तरमब्रवीत्
Containing 39 sacred Sanskrit shlokas with multi-author commentaries and translations.
तस्यास्तद्वचनं श्रुत्वा हनूमान्हरियूथपः
दुःखाद्दुःखाभिभूतायाः सान्तमुत्तरमब्रवीत्
अहं रामस्य संदेशाद्देवि दूतस्तवागतः
वैदेहि कुशली रामस्त्वां च कौशलमब्रवीत्
यो ब्राह्ममस्त्रं वेदांश्च वेद वेदविदां वरः
स त्वां दाशरथी रामो देवि कौशलमब्रवीत्
लक्ष्मणश्च महातेजा भर्तुस्तेऽनुचरः प्रियः
कृतवाञ्शोकसंतप्तः शिरसा तेऽभिवादनम्
सा तयोः कुशलं देवी निशम्य नरसिंहयोः
प्रीतिसंहृष्टसर्वाङ्गी हनूमान्तमथाब्रवीत्
कल्याणी बत गथेयं लौकिकी प्रतिभाति मे
एहि जीवन्तमानदो नरं वर्षशतादपि
तयोः समागमे तस्मिन्प्रीतिरुत्पादिताद्भुता
परस्परेण चालापं विश्वस्तौ तौ प्रचक्रतुः
तस्यास्तद्वचनं श्रुत्वा हनूमान्हरियूथपः
सीतायाः शोकदीनायाः समीपमुपचक्रमे
यथा यथा समीपं स हनूमानुपसर्पति
तथा तथा रावणं सा तं सीता परिशङ्कते
अहो धिग्धिक्कृतमिदं कथितं हि यदस्य मे
रूपान्तरमुपागम्य स एवायं हि रावणः
तामशोकस्य शाखां सा विमुक्त्वा शोककर्शिता
तस्यामेवानवद्याङ्गी धरण्यां समुपाविशत्
अवन्दत महाबाहुस्ततस्तां जनकात्मजाम्
सा चैनं भयवित्रस्ता भूयो नैवाभ्युदैक्षत
तं दृष्ट्वा वन्दमानं तु सीता शशिनिभानना
अब्रवीद्दीर्घमुच्छ्वस्य वानरं मधुरस्वरा
मायां प्रविष्टो मायावी यदि त्वं रावणः स्वयम्
उत्पादयसि मे भूयः संतापं तन्न शोभनम्
स्वं परित्यज्य रूपं यः परिव्राजकरूपधृत्
जनस्थाने मया दृष्टस्त्वं स एवासि रावणः
उपवासकृशां दीनां कामरूप निशाचर
संतापयसि मां भूयः संतापं तन्न शोभनम्
यदि रामस्य दूतस्त्वमागतो भद्रमस्तु ते
पृच्छामि त्वां हरिश्रेष्ठ प्रिया राम कथा हि मे
गुणान्रामस्य कथय प्रियस्य मम वानर
चित्तं हरसि मे सौम्य नदीकूलं यथा रयः
अहो स्वप्नस्य सुखता याहमेवं चिराहृता
प्रेषितं नाम पश्यामि राघवेण वनौकसं
स्वप्नेऽपि यद्यहं वीरं राघवं सहलक्ष्मणम्
पश्येयं नावसीदेयं स्वप्नोऽपि मम मत्सरी
नाहं स्वप्नमिमं मन्ये स्वप्ने दृष्ट्वा हि वानरम्
न शक्योऽभ्युदयः प्राप्तुं प्राप्तश्चाभ्युदयो मम
किं नु स्याच्चित्तमोहोऽयं भवेद्वातगतिस्त्वियम्
उन्मादजो विकारो वा स्यादियं मृगतृष्णिका
अथ वा नायमुन्मादो मोहोऽप्युन्मादलक्ष्मणः
संबुध्ये चाहमात्मानमिमं चापि वनौकसं
इत्येवं बहुधा सीता संप्रधार्य बलाबलम्
रक्षसां कामरूपत्वान्मेने तं राक्षसाधिपम्
एतां बुद्धिं तदा कृत्वा सीता सा तनुमध्यमा
न प्रतिव्याजहाराथ वानरं जनकात्मजा
सीतायाश्चिन्तितं बुद्ध्वा हनूमान्मारुतात्मजः
श्रोत्रानुकूलैर्वचनैस्तदा तां संप्रहर्षयत्
आदित्य इव तेजस्वी लोककान्तः शशी यथा
राजा सर्वस्य लोकस्य देवो वैश्रवणो यथा
विक्रमेणोपपन्नश्च यथा विष्णुर्महायशाः
सत्यवादी मधुरवाग्देवो वाचस्पतिर्यथा
रूपवान्सुभगः श्रीमान्कन्दर्प इव मूर्तिमान्
स्थानक्रोधप्रहर्ता च श्रेष्ठो लोके महारथः
बाहुच्छायामवष्टब्धो यस्य लोको महात्मनः
अपकृष्याश्रमपदान्मृगरूपेण राघवम्
शून्ये येनापनीतासि तस्य द्रक्ष्यसि यत्फलम्