Sundarakanda, Sarga 31, Verse 1
तामब्रवीन्महातेजा हनूमान्मारुतात्मजः
शिरस्यञ्जलिमाधाय सीतां मधुरया गिरा
Containing 27 sacred Sanskrit shlokas with multi-author commentaries and translations.
तामब्रवीन्महातेजा हनूमान्मारुतात्मजः
शिरस्यञ्जलिमाधाय सीतां मधुरया गिरा
का नु पद्मपलाशाक्षी क्लिष्टकौशेयवासिनी
द्रुमस्य शाखामालम्ब्य तिष्ठसि त्वमनिन्दिता
किमर्थं तव नेत्राभ्यां वारि स्रवति शोकजम्
पुण्डरीकपलाशाभ्यां विप्रकीर्णमिवोदकम्
सुराणामसुराणां च नागगन्धर्वरक्षसाम्
यक्षाणां किंनराणां च का त्वं भवसि शोभने
का त्वं भवसि रुद्राणां मरुतां वा वरानने
वसूनां वा वरारोहे देवता प्रतिभासि मे
किं नु चन्द्रमसा हीना पतिता विबुधालयात्
रोहिणी ज्योतिषां श्रेष्ठा श्रेष्ठा सर्वगुणान्विता
कोपाद्वा यदि वा मोहाद्भर्तारमसितेक्षणा
वसिष्ठं कोपयित्वा त्वं नासि कल्याण्यरुन्धती
को नौ पुत्रः पिता भ्रात भर्ता वा ते सुमध्यमे
अस्माल्लोकादमुं लोकं गतं त्वमनुशोचसि
व्यञ्जनानि हि ते यानि लक्षणानि च लक्षये
महिषी भूमिपालस्य राजकन्यासि मे मता
रावणेन जनस्थानाद्बलादपहृता यदि
सीता त्वमसि भद्रं ते तन्ममाचक्ष्व पृच्छतः
सा तस्य वचनं श्रुत्वा रामकीर्तनहर्षिता
उवाच वाक्यं वैदेही हनूमन्तं द्रुमाश्रितम्
दुहिता जनकस्याहं वैदेहस्य महात्मनः
सीता च नाम नाम्नाहं भार्या रामस्य धीमतः
समा द्वादश तत्राहं राघवस्य निवेशने
भुञ्जाना मानुषान्भोगान्सर्वकामसमृद्धिनी
ततस्त्रयोदशे वर्षे राज्येनेक्ष्वाकुनन्दनम्
अभिषेचयितुं राजा सोपाध्यायः प्रचक्रमे
तस्मिन्संभ्रियमाणे तु राघवस्याभिषेचने
कैकेयी नाम भर्तारं देवी वचनमब्रवीत्
न पिबेयं न खादेयं प्रत्यहं मम भोजनम्
एष मे जीवितस्यान्तो रामो यद्यभिषिच्यते
यत्तदुक्तं त्वया वाक्यं प्रीत्या नृपतिसत्तम
तच्चेन्न वितथं कार्यं वनं गच्छतु राघवः
स राजा सत्यवाग्देव्या वरदानमनुस्मरन्
मुमोह वचनं श्रुत्वा कैकेय्याः क्रूरमप्रियम्
ततस्तु स्थविरो राजा सत्यधर्मे व्यवस्थितः
ज्येष्ठं यशस्विनं पुत्रं रुदन्राज्यमयाचत
स पितुर्वचनं श्रीमानभिषेकात्परं प्रियम्
मनसा पूर्वमासाद्य वाचा प्रतिगृहीतवान्
दद्यान्न प्रतिगृह्णीयान्न ब्रूयत्किंचिदप्रियम्
अपि जीवितहेतोर्हि रामः सत्यपराक्रमः
स विहायोत्तरीयाणि महार्हाणि महायशाः
विसृज्य मनसा राज्यं जनन्यै मां समादिशत्
साहं तस्याग्रतस्तूर्णं प्रस्थिता वनचारिणी
न हि मे तेन हीनाया वासः स्वर्गेऽपि रोचते
प्रागेव तु महाभागः सौमित्रिर्मित्रनन्दनः
पूर्वजस्यानुयात्रार्थे द्रुमचीरैरलंकृतः
ते वयं भर्तुरादेशं बहु मान्यदृढव्रताः
प्रविष्टाः स्म पुराद्दृष्टं वनं गम्भीरदर्शनम्
वसतो दण्डकारण्ये तस्याहममितौजसः
रक्षसापहृता भार्या रावणेन दुरात्मना
द्वौ मासौ तेन मे कालो जीवितानुग्रहः कृतः
ऊर्ध्वं द्वाभ्यां तु मासाभ्यां ततस्त्यक्ष्यामि जीवितम्