Valmiki Ramayana

Sundarakanda, Sarga 30

Containing 8 sacred Sanskrit shlokas with multi-author commentaries and translations.

Valmiki Ramayana

Sundarakanda, Sarga 30, Verse 1

ततः शाखान्तरे लीनं दृष्ट्वा चलितमानसा

सा ददर्श कपिं तत्र प्रश्रितं प्रियवादिनम्

Valmiki Ramayana

Sundarakanda, Sarga 30, Verse 2

सा तु दृष्ट्वा हरिश्रेष्ठं विनीतवदुपस्थितम्

मैथिली चिन्तयामास स्वप्नोऽयमिति भामिनी

Valmiki Ramayana

Sundarakanda, Sarga 30, Verse 3

सा तं समीक्ष्यैव भृशं विसंज्ञा; गतासुकल्पेव बभूव सीता

चिरेण संज्ञां प्रतिलभ्य चैव; विचिन्तयामास विशालनेत्रा

Valmiki Ramayana

Sundarakanda, Sarga 30, Verse 4

स्वप्नो मयायं विकृतोऽद्य दृष्टः; शाखामृगः शास्त्रगणैर्निषिद्धः

स्वस्त्यस्तु रामाय सलक्ष्मणाय; तथा पितुर्मे जनकस्य राज्ञः

Valmiki Ramayana

Sundarakanda, Sarga 30, Verse 5

स्वप्नोऽपि नायं न हि मेऽस्ति निद्रा; शोकेन दुःखेन च पीडितायाः

सुखं हि मे नास्ति यतोऽस्मि हीना; तेनेन्दुपूर्णप्रतिमाननेन

Valmiki Ramayana

Sundarakanda, Sarga 30, Verse 6

अहं हि तस्याद्य मनो भवेन; संपीडिता तद्गतसर्वभावा

विचिन्तयन्ती सततं तमेव; तथैव पश्यामि तथा शृणोमि

Valmiki Ramayana

Sundarakanda, Sarga 30, Verse 7

मनोरथः स्यादिति चिन्तयामि; तथापि बुद्ध्या च वितर्कयामि

किं कारणं तस्य हि नास्ति रूपं; सुव्यक्तरूपश्च वदत्ययं माम्

Valmiki Ramayana

Sundarakanda, Sarga 30, Verse 8

नमोऽस्तु वाचस्पतये सवज्रिणे; स्वयम्भुवे चैव हुताशनाय

अनेन चोक्तं यदिदं ममाग्रतो; वनौकसा तच्च तथास्तु नान्यथा