Sundarakanda, Sarga 29, Verse 1
एवं बहुविधां चिन्तां चिन्तयित्व महाकपिः
संश्रवे मधुरं वाक्यं वैदेह्या व्याजहार ह
Containing 12 sacred Sanskrit shlokas with multi-author commentaries and translations.
एवं बहुविधां चिन्तां चिन्तयित्व महाकपिः
संश्रवे मधुरं वाक्यं वैदेह्या व्याजहार ह
राजा दशरथो नाम रथकुञ्जरवाजिनाम्
पुण्यशीलो महाकीर्तिरृजुरासीन्महायशाः
चक्रवर्तिकुले जातः पुरंदरसमो बले
अहिंसारतिरक्षुद्रो घृणी सत्यपराक्रमः
मुख्यश्चेक्ष्वाकुवंशस्य लक्ष्मीवाँल्लक्ष्मिवर्धनः
पार्थिवव्यञ्जनैर्युक्तः पृथुश्रीः पार्थिवर्षभः
पृथिव्यां चतुरन्तयां विश्रुतः सुखदः सुखी
तस्य पुत्रः प्रियो ज्येष्ठस्ताराधिपनिभाननः
रामो नाम विशेषज्ञः श्रेष्ठः सर्वधनुष्मताम्
रक्षिता स्वस्य वृत्तस्य स्वजनस्यापि रक्षिता
रक्षिता जीवलोकस्य धर्मस्य च परंतपः
तस्य सत्याभिसंधस्य वृद्धस्य वचनात्पितुः
सभार्यः सह च भ्रात्रा वीरः प्रव्रजितो वनम्
तेन तत्र महारण्ये मृगयां परिधावता
जनस्थानवधं श्रुत्वा हतौ च खरदूषणौ
ततस्त्वमर्षापहृता जानकी रावणेन तु
यथारूपां यथावर्णां यथालक्ष्मीं विनिश्चिताम्
अश्रौषं राघवस्याहं सेयमासादिता मया
विररामैवमुक्त्वासौ वाचं वानरपुंगवः
जानकी चापि तच्छ्रुत्वा विस्मयं परमं गता
ततः सा वक्रकेशान्ता सुकेशी केशसंवृतम्
उन्नम्य वदनं भीरुः शिंशपावृक्षमैक्षत
सा तिर्यगूर्ध्वं च तथाप्यधस्ता;न्निरीक्षमाणा तमचिन्त्य बुद्धिम्
ददर्श पिङ्गाधिपतेरमात्यं; वातात्मजं सूर्यमिवोदयस्थम्