Sundarakanda, Sarga 28, Verse 1
हनुमानपि विक्रान्तः सर्वं शुश्राव तत्त्वतः
सीतायास्त्रिजटायाश्च राक्षसीनां च तर्जनम्
Containing 44 sacred Sanskrit shlokas with multi-author commentaries and translations.
हनुमानपि विक्रान्तः सर्वं शुश्राव तत्त्वतः
सीतायास्त्रिजटायाश्च राक्षसीनां च तर्जनम्
अवेक्षमाणस्तां देवीं देवतामिव नन्दने
ततो बहुविधां चिन्तां चिन्तयामास वानरः
यां कपीनां सहस्राणि सुबहून्ययुतानि च
दिक्षु सर्वासु मार्गन्ते सेयमासादिता मया
चारेण तु सुयुक्तेन शत्रोः शक्तिमवेक्षिता
गूढेन चरता तावदवेक्षितमिदं मया
राक्षसानां विशेषश्च पुरी चेयमवेक्षिता
राक्षसाधिपतेरस्य प्रभावो रावणस्य च
युक्तं तस्याप्रमेयस्य सर्वसत्त्वदयावतः
समाश्वासयितुं भार्यां पतिदर्शनकाङ्क्षिणीम्
अहमाश्वासयाम्येनां पूर्णचन्द्रनिभाननाम्
अदृष्टदुःखां दुःखस्य न ह्यन्तमधिगच्छतीम्
यदि ह्यहमिमां देवीं शोकोपहतचेतनाम्
अनाश्वास्य गमिष्यामि दोषवद्गमनं भवेत्
गते हि मयि तत्रेयं राजपुत्री यशस्विनी
परित्राणमविन्दन्ती जानकी जीवितं त्यजेत्
मया च स महाबाहुः पूर्णचन्द्रनिभाननः
समाश्वासयितुं न्याय्यः सीतादर्शनलालसः
निशाचरीणां प्रत्यक्षमक्षमं चाभिभाषणम्
कथं नु खलु कर्तव्यमिदं कृच्छ्र गतो ह्यहम्
अनेन रात्रिशेषेण यदि नाश्वास्यते मया
सर्वथा नास्ति संदेहः परित्यक्ष्यति जीवितम्
रामश्च यदि पृच्छेन्मां किं मां सीताब्रवीद्वचः
किमहं तं प्रतिब्रूयामसंभाष्य सुमध्यमाम्
सीतासंदेशरहितं मामितस्त्वरया गतम्
निर्दहेदपि काकुत्स्थः क्रुद्धस्तीव्रेण चक्षुषा
यदि चेद्योजयिष्यामि भर्तारं रामकारणात्
व्यर्थमागमनं तस्य ससैन्यस्य भविष्यति
अन्तरं त्वहमासाद्य राक्षसीनामिह स्थितः
शनैराश्वासयिष्यामि संतापबहुलामिमाम्
अहं ह्यतितनुश्चैव वनरश्च विशेषतः
वाचं चोदाहरिष्यामि मानुषीमिह संस्कृताम्
यदि वाचं प्रदास्यामि द्विजातिरिव संस्कृताम्
रावणं मन्यमाना मां सीता भीता भविष्यति
अवश्यमेव वक्तव्यं मानुषं वाक्यमर्थवत्
मया सान्त्वयितुं शक्या नान्यथेयमनिन्दिता
सेयमालोक्य मे रूपं जानकी भाषितं तथा
रक्षोभिस्त्रासिता पूर्वं भूयस्त्रासं गमिष्यति
ततो जातपरित्रासा शब्दं कुर्यान्मनस्विनी
जानमाना विशालाक्षी रावणं कामरूपिणम्
सीतया च कृते शब्दे सहसा राक्षसीगणः
नानाप्रहरणो घोरः समेयादन्तकोपमः
ततो मां संपरिक्षिप्य सर्वतो विकृताननाः
वधे च ग्रहणे चैव कुर्युर्यत्नं यथाबलम्
तं मां शाखाः प्रशाखाश्च स्कन्धांश्चोत्तमशाखिनाम्
दृष्ट्वा विपरिधावन्तं भवेयुर्भयशङ्किताः
मम रूपं च संप्रेक्ष्य वनं विचरतो महत्
राक्षस्यो भयवित्रस्ता भवेयुर्विकृताननाः
ततः कुर्युः समाह्वानं राक्षस्यो रक्षसामपि
राक्षसेन्द्रनियुक्तानां राक्षसेन्द्रनिवेशने
ते शूलशरनिस्त्रिंश विविधायुधपाणयः
आपतेयुर्विमर्देऽस्मिन्वेगेनोद्विग्नकारिणः
संक्रुद्धस्तैस्तु परितो विधमन्रक्षसां बलम्
शक्नुयं न तु संप्राप्तुं परं पारं महोदधेः
मां वा गृह्णीयुराप्लुत्य बहवः शीघ्रकारिणः
स्यादियं चागृहीतार्था मम च ग्रहणं भवेत्
हिंसाभिरुचयो हिंस्युरिमां वा जनकात्मजाम्
विपन्नं स्यात्ततः कार्यं रामसुग्रीवयोरिदम्