Sundarakanda, Sarga 27, Verse 1
तथागतां तां व्यथितामनिन्दितां; व्यपेतहर्षां परिदीनमानसाम्
शुभां निमित्तानि शुभानि भेजिरे; नरं श्रिया जुष्टमिवोपजीविनः
Containing 8 sacred Sanskrit shlokas with multi-author commentaries and translations.
तथागतां तां व्यथितामनिन्दितां; व्यपेतहर्षां परिदीनमानसाम्
शुभां निमित्तानि शुभानि भेजिरे; नरं श्रिया जुष्टमिवोपजीविनः
तस्याः शुभं वाममरालपक्ष्म; राजीवृतं कृष्णविशालशुक्लम्
प्रास्पन्दतैकं नयनं सुकेश्या; मीनाहतं पद्ममिवाभिताम्रम्
भुजश्च चार्वञ्चितपीनवृत्तः; परार्ध्य कालागुरुचन्दनार्हः
अनुत्तमेनाध्युषितः प्रियेण; चिरेण वामः समवेपताशु
गजेन्द्रहस्तप्रतिमश्च पीन;स्तयोर्द्वयोः संहतयोः सुजातः
प्रस्पन्दमानः पुनरूरुरस्या; रामं पुरस्तात्स्थितमाचचक्षे
शुभं पुनर्हेमसमानवर्ण;मीषद्रजोध्वस्तमिवामलाक्ष्याः
वासः स्थितायाः शिखराग्रदन्त्याः; किंचित्परिस्रंसत चारुगात्र्याः
एतैर्निमित्तैरपरैश्च सुभ्रूः; संबोधिता प्रागपि साधुसिद्धैः
वातातपक्लान्तमिव प्रनष्टं; वर्षेण बीजं प्रतिसंजहर्ष
तस्याः पुनर्बिम्बफलोपमौष्ठं; स्वक्षिभ्रुकेशान्तमरालपक्ष्म
वक्त्रं बभासे सितशुक्लदंष्ट्रं; राहोर्मुखाच्चन्द्र इव प्रमुक्तः
सा वीतशोका व्यपनीततन्द्री; शान्तज्वरा हर्षविबुद्धसत्त्वा
अशोभतार्या वदनेन शुक्ले; शीतान्शुना रात्रिरिवोदितेन