Sundarakanda, Sarga 26, Verse 1
सा राक्षसेन्द्रस्य वचो निशम्य; तद्रावणस्याप्रियमप्रियार्ता
सीता वितत्रास यथा वनान्ते; सिंहाभिपन्ना गजराजकन्या
Containing 20 sacred Sanskrit shlokas with multi-author commentaries and translations.
सा राक्षसेन्द्रस्य वचो निशम्य; तद्रावणस्याप्रियमप्रियार्ता
सीता वितत्रास यथा वनान्ते; सिंहाभिपन्ना गजराजकन्या
सा राक्षसी मध्यगता च भीरु;र्वाग्भिर्भृशं रावणतर्जिता च
कान्तारमध्ये विजने विसृष्टा; बालेव कन्या विललाप सीता
सत्यं बतेदं प्रवदन्ति लोके; नाकालमृत्युर्भवतीति सन्तः
यत्राहमेवं परिभर्त्स्यमाना; जीवामि किंचित्क्षणमप्यपुण्या
सुखाद्विहीनं बहुदुःखपूर्ण;मिदं तु नूनं हृदयं स्थिरं मे
विदीर्यते यन्न सहस्रधाद्य; वज्राहतं शृङ्गमिवाचलस्य
नैवास्ति नूनं मम दोषमत्र; वध्याहमस्याप्रियदर्शनस्य
भावं न चास्याहमनुप्रदातु;मलं द्विजो मन्त्रमिवाद्विजाय
नूनं ममाङ्गान्यचिरादनार्यः; शस्त्रैः शितैश्छेत्स्यति राक्षसेन्द्रः
तस्मिन्ननागच्छति लोकनाथे; गर्भस्थजन्तोरिव शल्यकृन्तः
दुःखं बतेदं मम दुःखिताया; मासौ चिरायाभिगमिष्यतो द्वौ
बद्धस्य वध्यस्य यथा निशान्ते; राजापराधादिव तस्करस्य
हा राम हा लक्ष्मण हा सुमित्रे; हा राम मातः सह मे जनन्या
एषा विपद्याम्यहमल्पभाग्या; महार्णवे नौरिव मूढ वाता
तरस्विनौ धारयता मृगस्य; सत्त्वेन रूपं मनुजेन्द्रपुत्रौ
नूनं विशस्तौ मम कारणात्तौ; सिंहर्षभौ द्वाविव वैद्युतेन
नूनं स कालो मृगरूपधारी; मामल्पभाग्यां लुलुभे तदानीम्
यत्रार्यपुत्रं विससर्ज मूढा; रामानुजं लक्ष्मणपूर्वकं च
हा राम सत्यव्रत दीर्घवाहो; हा पूर्णचन्द्रप्रतिमानवक्त्र
हा जीवलोकस्य हितः प्रियश्च; वध्यां न मां वेत्सि हि राक्षसानाम्
अनन्यदेवत्वमियं क्षमा च; भूमौ च शय्या नियमश्च धर्मे
पतिव्रतात्वं विफलं ममेदं; कृतं कृतघ्नेष्विव मानुषाणाम्
मोघो हि धर्मश्चरितो ममायं; तथैकपत्नीत्वमिदं निरर्थम्
या त्वां न पश्यामि कृशा विवर्णा; हीना त्वया संगमने निराशा
पितुर्निर्देशं नियमेन कृत्वा; वनान्निवृत्तश्चरितव्रतश्च
स्त्रीभिस्तु मन्ये विपुलेक्षणाभिः; संरंस्यसे वीतभयः कृतार्थः
अहं तु राम त्वयि जातकामा; चिरं विनाशाय निबद्धभावा
मोघं चरित्वाथ तपोव्रतं च; त्यक्ष्यामि धिग्जीवितमल्पभाग्या
सा जीवितं क्षिप्रमहं त्यजेयं; विषेण शस्त्रेण शितेन वापि
विषस्य दाता न तु मेऽस्ति कश्चि;च्छस्त्रस्य वा वेश्मनि राक्षसस्य
शोकाभितप्ता बहुधा विचिन्त्य; सीताथ वेण्युद्ग्रथनं गृहीत्वा
उद्बध्य वेण्युद्ग्रथनेन शीघ्र;महं गमिष्यामि यमस्य मूलम्
इतीव सीता बहुधा विलप्य; सर्वात्मना राममनुस्मरन्ती
प्रवेपमाना परिशुष्कवक्त्रा; नगोत्तमं पुष्पितमाससाद
उपस्थिता सा मृदुर्सर्वगात्री; शाखां गृहीत्वाथ नगस्य तस्य
तस्यास्तु रामं प्रविचिन्तयन्त्या; रामानुजं स्वं च कुलं शुभाङ्ग्याः
शोकानिमित्तानि तदा बहूनि; धैर्यार्जितानि प्रवराणि लोके
प्रादुर्निमित्तानि तदा बभूवुः; पुरापि सिद्धान्युपलक्षितानि