Sundarakanda, Sarga 25, Verse 1
इत्युक्ताः सीतया घोरं राक्षस्यः क्रोधमूर्छिताः
काश्चिज्जग्मुस्तदाख्यातुं रावणस्य तरस्विनः
Containing 38 sacred Sanskrit shlokas with multi-author commentaries and translations.
इत्युक्ताः सीतया घोरं राक्षस्यः क्रोधमूर्छिताः
काश्चिज्जग्मुस्तदाख्यातुं रावणस्य तरस्विनः
ततः सीतामुपागम्य राक्षस्यो घोरदर्शनाः
पुनः परुषमेकार्थमनर्थार्थमथाब्रुवन्
हन्तेदानीं तवानार्ये सीते पापविनिश्चये
राक्षस्यो भक्षयिष्यन्ति मांसमेतद्यथासुखम्
सीतां ताभिरनार्याभिर्दृष्ट्वा संतर्जितां तदा
राक्षसी त्रिजटावृद्धा शयाना वाक्यमब्रवीत्
आत्मानं खादतानार्या न सीतां भक्षयिष्यथ
जनकस्य सुतामिष्टां स्नुषां दशरथस्य च
स्वप्नो ह्यद्य मया दृष्टो दारुणो रोमहर्षणः
राक्षसानामभावाय भर्तुरस्या भवाय च
एवमुक्तास्त्रिजटया राक्षस्यः क्रोधमूर्छिताः
सर्वा एवाब्रुवन्भीतास्त्रिजटां तामिदं वचः
कथयस्व त्वया दृष्टः स्वप्नेऽयं कीदृशो निशि
तासां श्रुत्वा तु वचनं राक्षसीनां मुखोद्गतम्
उवाच वचनं काले त्रिजटास्वप्नसंश्रितम्
गजदन्तमयीं दिव्यां शिबिकामन्तरिक्षगाम्
युक्तां वाजिसहस्रेण स्वयमास्थाय राघवः
स्वप्ने चाद्य मया दृष्टा सीता शुक्लाम्बरावृता
सागरेण परिक्षिप्तं श्वेतपर्वतमास्थिता
रामेण संगता सीता भास्करेण प्रभा यथा
राघवश्च मया दृष्टश्चतुर्दन्तं महागजम्
आरूढः शैलसंकाशं चचार सहलक्ष्मणः
ततस्तौ नरशार्दूलौ दीप्यमानौ स्वतेजसा
शुक्लमाल्याम्बरधरौ जानकीं पर्युपस्थितौ
ततस्तस्य नगस्याग्रे आकाशस्थस्य दन्तिनः
भर्त्रा परिगृहीतस्य जानकी स्कन्धमाश्रिता
भर्तुरङ्कात्समुत्पत्य ततः कमललोचना
चन्द्रसूर्यौ मया दृष्टा पाणिभ्यां परिमार्जती
ततस्ताभ्यां कुमाराभ्यामास्थितः स गजोत्तमः
सीतया च विशालाक्ष्या लङ्काया उपरि स्थितः
पाण्डुरर्षभयुक्तेन रथेनाष्टयुजा स्वयम्
शुक्लमाल्याम्बरधरो लक्ष्मणेन समागतः
लक्ष्मणेन सह भ्रात्रा सीतया सह भार्यया
विमानात्पुष्पकादद्य रावणः पतितो भुवि
कृष्यपाणः स्त्रिया दृष्टो मुण्डः कृष्णाम्बरः पुनः
रथेन खरयुक्तेन रक्तमाल्यानुलेपनः
प्रयातो दक्षिणामाशां प्रविष्टः कर्दमं ह्रदम्
कण्ठे बद्ध्वा दशग्रीवं प्रमदा रक्तवासिनी
काली कर्दमलिप्ताङ्गी दिशं याम्यां प्रकर्षति
वराहेण दशग्रीवः शिंशुमारेण चेन्द्रजित्
उष्ट्रेण कुम्भकर्णश्च प्रयातो दक्षिणां दिशम्
समाजश्च महान्वृत्तो गीतवादित्रनिःस्वनः
पिबतां रक्तमाल्यानां रक्षसां रक्तवाससाम्
लङ्का चेयं पुरी रम्या सवाजिरथसंकुला
सागरे पतिता दृष्टा भग्नगोपुरतोरणा
पीत्व तैलं प्रनृत्ताश्च प्रहसन्त्यो महास्वनाः
लङ्कायां भस्मरूक्षायां सर्वा राक्षसयोषितः
कुम्भकर्णादयश्चेमे सर्वे राक्षसपुंगवाः
रक्तं निवसनं गृह्य प्रविष्टा गोमयह्रदे
अपगच्छत नश्यध्वं सीतामाप्नोति राघवः
घातयेत्परमामर्षी सर्वैः सार्धं हि राक्षसैः
प्रियां बहुमतां भार्यां वनवासमनुव्रताम्
भर्त्सितां तर्जितां वापि नानुमंस्यति राघवः
तदलं क्रूरवाक्यैर्वः सान्त्वमेवाभिधीयताम्
अभियाचाम वैदेहीमेतद्धि मम रोचते
यस्या ह्येवं विधः स्वप्नो दुःखितायाः प्रदृश्यते
सा दुःखैर्बहुभिर्मुक्ता प्रियं प्राप्नोत्यनुत्तमम्
भर्त्सितामपि याचध्वं राक्षस्यः किं विवक्षया
राघवाद्धि भयं घोरं राक्षसानामुपस्थितम्