Sundarakanda, Sarga 24, Verse 1
प्रसक्ताश्रुमुखीत्येवं ब्रुवन्ती जनकात्मजा
अधोमुखमुखी बाला विलप्तुमुपचक्रमे
Containing 49 sacred Sanskrit shlokas with multi-author commentaries and translations.
प्रसक्ताश्रुमुखीत्येवं ब्रुवन्ती जनकात्मजा
अधोमुखमुखी बाला विलप्तुमुपचक्रमे
उन्मत्तेव प्रमत्तेव भ्रान्तचित्तेव शोचती
उपावृत्ता किशोरीव विवेष्टन्ती महीतले
राघवस्याप्रमत्तस्य रक्षसा कामरूपिणा
रावणेन प्रमथ्याहमानीता क्रोशती बलात्
राक्षसी वशमापन्ना भर्त्यमाना सुदारुणम्
चिन्तयन्ती सुदुःखार्ता नाहं जीवितुमुत्सहे
न हि मे जीवितेनार्थो नैवार्थैर्न च भूषणैः
वसन्त्या राक्षसी मध्ये विना रामं महारथम्
धिङ्मामनार्यामसतीं याहं तेन विना कृता
मुहूर्तमपि रक्षामि जीवितं पापजीविता
का च मे जीविते श्रद्धा सुखे वा तं प्रियं विना
भर्तारं सागरान्ताया वसुधायाः प्रियं वदम्
भिद्यतां भक्ष्यतां वापि शरीरं विसृजाम्यहम्
न चाप्यहं चिरं दुःखं सहेयं प्रियवर्जिता
चरणेनापि सव्येन न स्पृशेयं निशाचरम्
रावणं किं पुनरहं कामयेयं विगर्हितम्
प्रत्याख्यातं न जानाति नात्मानं नात्मनः कुलम्
यो नृशंस स्वभावेन मां प्रार्थयितुमिच्छति
छिन्ना भिन्ना विभक्ता वा दीप्ते वाग्नौ प्रदीपिता
रावणं नोपतिष्ठेयं किं प्रलापेन वश्चिरम्
ख्यातः प्राज्ञः कृतज्ञश्च सानुक्रोशश्च राघवः
सद्वृत्तो निरनुक्रोशः शङ्के मद्भाग्यसंक्षयात्
राक्षसानां जनस्थाने सहस्राणि चतुर्दश
येनैकेन निरस्तानि स मां किं नाभिपद्यते
निरुद्धा रावणेनाहमल्पवीर्येण रक्षसा
समर्थः खलु मे भर्ता रावणं हन्तुमाहवे
विराधो दण्डकारण्ये येन राक्षसपुंगवः
रणे रामेण निहतः स मां किं नाभिपद्यते
कामं मध्ये समुद्रस्य लङ्केयं दुष्प्रधर्षणा
न तु राघवबाणानां गतिरोधी ह विद्यते
किं नु तत्कारणं येन रामो दृढपराक्रमः
रक्षसापहृतां भार्यामिष्टां नाभ्यवपद्यते
इहस्थां मां न जानीते शङ्के लक्ष्मणपूर्वजः
जानन्नपि हि तेजस्वी धर्षणां मर्षयिष्यति
हृतेति योऽधिगत्वा मां राघवाय निवेदयेत्
गृध्रराजोऽपि स रणे रावणेन निपातितः
कृतं कर्म महत्तेन मां तदाभ्यवपद्यता
तिष्ठता रावणद्वन्द्वे वृद्धेनापि जटायुषा
यदि मामिह जानीयाद्वर्तमानां स राघवः
अद्य बाणैरभिक्रुद्धः कुर्याल्लोकमराक्षसं
विधमेच्च पुरीं लङ्कां शोषयेच्च महोदधिम्
रावणस्य च नीचस्य कीर्तिं नाम च नाशयेत्
ततो निहतनथानां राक्षसीनां गृहे गृहे
यथाहमेवं रुदती तथा भूयो न संशयः
अन्विष्य रक्षसां लङ्कां कुर्याद्रामः सलक्ष्मणः
न हि ताभ्यां रिपुर्दृष्टो मुहूतमपि जीवति
चिता धूमाकुलपथा गृध्रमण्डलसंकुला
अचिरेण तु लङ्केयं श्मशानसदृशी भवेत्
अचिरेणैव कालेन प्राप्स्याम्येव मनोरथम्
दुष्प्रस्थानोऽयमाख्याति सर्वेषां वो विपर्ययः
यादृशानि तु दृश्यन्ते लङ्कायामशुभानि तु
अचिरेणैव कालेन भविष्यति हतप्रभा
नूनं लङ्का हते पापे रावणे राक्षसाधिपे
शोषं यास्यति दुर्धर्षा प्रमदा विधवा यथा
पुष्योत्सवसमृद्धा च नष्टभर्त्री सराक्षसा
भविष्यति पुरी लङ्का नष्टभर्त्री यथाङ्गना
नूनं राक्षसकन्यानां रुदन्तीनां गृहे गृहे
श्रोष्यामि नचिरादेव दुःखार्तानामिह ध्वनिम्
सान्धकारा हतद्योता हतराक्षसपुंगवा
भविष्यति पुरी लङ्का निर्दग्धा रामसायकैः