Sundarakanda, Sarga 22, Verse 1
ततः सीतामुपागम्य राक्षस्यो विकृताननाः
परुषं परुषा नार्य ऊचुस्ता वाक्यमप्रियम्
Containing 42 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततः सीतामुपागम्य राक्षस्यो विकृताननाः
परुषं परुषा नार्य ऊचुस्ता वाक्यमप्रियम्
किं त्वमन्तःपुरे सीते सर्वभूतमनोहरे
महार्हशयनोपेते न वासमनुमन्यसे
मानुषी मानुषस्यैव भार्यात्वं बहु मन्यसे
प्रत्याहर मनो रामान्न त्वं जातु भविष्यसि
मानुषी मानुषं तं तु राममिच्छसि शोभने
राज्याद्भ्रष्टमसिद्धार्थं विक्लवं तमनिन्दिते
राक्षसीनां वचः श्रुत्वा सीता पद्मनिभेक्षणा
नेत्राभ्यामश्रुपूर्णाभ्यामिदं वचनमब्रवीत्
यदिदं लोकविद्विष्टमुदाहरथ संगताः
नैतन्मनसि वाक्यं मे किल्बिषं प्रतितिष्ठति
न मानुषी राक्षसस्य भार्या भवितुमर्हति
कामं खादत मां सर्वा न करिष्यामि वो वचः
दीनो वा राज्यहीनो वा यो मे भर्ता स मे गुरुः
सीताया वचनं श्रुत्वा राक्षस्यः क्रोधमूर्छिताः
भर्त्सयन्ति स्म परुषैर्वाक्यै रावणचोदिताः
अवलीनः स निर्वाक्यो हनुमाञ्शिंशपाद्रुमे
सीतां संतर्जयन्तीस्ता राक्षसीरशृणोत्कपिः
तामभिक्रम्य संरब्धा वेपमानां समन्ततः
भृशं संलिलिहुर्दीप्तान्प्रलम्बदशनच्छदान्
ऊचुश्च परमक्रुद्धाः प्रगृह्याशु परश्वधान्
नेयमर्हति भर्तारं रावणं राक्षसाधिपम्
सा भर्त्स्यमाना भीमाभी राक्षसीभिर्वरानना
सा बाष्पमपमार्जन्ती शिंशपां तामुपागमत्
ततस्तां शिंशपां सीता राक्षसीभिः समावृता
अभिगम्य विशालाक्षी तस्थौ शोकपरिप्लुता
तां कृशां दीनवदनां मलिनाम्बरधारिणीम्
भर्त्सयां चक्रिरे भीमा राक्षस्यस्ताः समन्ततः
ततस्तां विनता नाम राक्षसी भीमदर्शना
अब्रवीत्कुपिताकारा कराला निर्णतोदरी
सीते पर्याप्तमेतावद्भर्तृस्नेहो निदर्शितः
सर्वत्रातिकृतं भद्रे व्यसनायोपकल्पते
परितुष्टास्मि भद्रं ते मानुषस्ते कृतो विधिः
ममापि तु वचः पथ्यं ब्रुवन्त्याः कुरु मैथिलि
रावणं भज भर्तारं भर्तारं सर्वरक्षसाम्
विक्रान्तं रूपवन्तं च सुरेशमिव वासवम्
दक्षिणं त्यागशीलं च सर्वस्य प्रियवादिनम्
मानुषं कृपणं रामं त्यक्त्वा रावणमाश्रय
दिव्याङ्गरागा वैदेहि दिव्याभरणभूषिता
अद्य प्रभृति सर्वेषां लोकानामीश्वरी भव
अग्नेः स्वाहा यथा देवी शचीवेन्द्रस्य शोभने
किं ते रामेण वैदेहि कृपणेन गतायुषा
एतदुक्तं च मे वाक्यं यदि त्वं न करिष्यसि
अस्मिन्मुहूर्ते सर्वास्त्वां भक्षयिष्यामहे वयम्
अन्या तु विकटा नाम लम्बमानपयोधरा
अब्रवीत्कुपिता सीतां मुष्टिमुद्यम्य गर्जती
बहून्यप्रतिरूपाणि वचनानि सुदुर्मते
अनुक्रोशान्मृदुत्वाच्च सोढानि तव मैथिलि
न च नः कुरुषे वाक्यं हितं कालपुरस्कृतम्
आनीतासि समुद्रस्य पारमन्यैर्दुरासदम्
रावणान्तःपुरं घोरं प्रविष्टा चासि मैथिलि
रावणस्य गृहे रुधा अस्माभिस्तु सुरक्षिता
न त्वां शक्तः परित्रातुमपि साक्षात्पुरंदरः
कुरुष्व हितवादिन्या वचनं मम मैथिलि
अलमश्रुप्रपातेन त्यज शोकमनर्थकम्
भज प्रीतिं प्रहर्षं च त्यजैतां नित्यदैन्यताम्
सीते राक्षसराजेन सह क्रीड यथासुखम्
जानासि हि यथा भीरु स्त्रीणां यौवनमध्रुवम्
यावन्न ते व्यतिक्रामेत्तावत्सुखमवाप्नुहि
उद्यानानि च रम्याणि पर्वतोपवनानि च
सह राक्षसराजेन चर त्वं मदिरेक्षणे