Sundarakanda, Sarga 20, Verse 1
सीताया वचनं श्रुत्वा परुषं राक्षसाधिपः
प्रत्युवाच ततः सीतां विप्रियं प्रियदर्शनाम्
Containing 41 sacred Sanskrit shlokas with multi-author commentaries and translations.
सीताया वचनं श्रुत्वा परुषं राक्षसाधिपः
प्रत्युवाच ततः सीतां विप्रियं प्रियदर्शनाम्
यथा यथा सान्त्वयिता वश्यः स्त्रीणां तथा तथा
यथा यथा प्रियं वक्ता परिभूतस्तथा तथा
संनियच्छति मे क्रोधं त्वयि कामः समुत्थितः
द्रवतो मार्गमासाद्य हयानिव सुसारथिः
वामः कामो मनुष्याणां यस्मिन्किल निबध्यते
जने तस्मिंस्त्वनुक्रोशः स्नेहश्च किल जायते
एतस्मात्कारणान्न तां घतयामि वरानने
वधार्हामवमानार्हां मिथ्याप्रव्रजिते रताम्
परुषाणि हि वाक्यानि यानि यानि ब्रवीषि माम्
तेषु तेषु वधो युक्तस्तव मैथिलि दारुणः
एवमुक्त्वा तु वैदेहीं रावणो राक्षसाधिपः
क्रोधसंरम्भसंयुक्तः सीतामुत्तरमब्रवीत्
द्वौ मासौ रक्षितव्यौ मे योऽवधिस्ते मया कृतः
ततः शयनमारोह मम त्वं वरवर्णिनि
द्वाभ्यामूर्ध्वं तु मासाभ्यां भर्तारं मामनिच्छतीम्
मम त्वां प्रातराशार्थमारभन्ते महानसे
तां तर्ज्यमानां संप्रेक्ष्य राक्षसेन्द्रेण जानकीम्
देवगन्धर्वकन्यास्ता विषेदुर्विपुलेक्षणाः
ओष्ठप्रकारैरपरा नेत्रवक्त्रैस्तथापराः
सीतामाश्वासयामासुस्तर्जितां तेन रक्षसा
ताभिराश्वासिता सीता रावणं राक्षसाधिपम्
उवाचात्महितं वाक्यं वृत्तशौण्डीर्यगर्वितम्
नूनं न ते जनः कश्चिदसिन्निःश्रेयसे स्थितः
निवारयति यो न त्वां कर्मणोऽस्माद्विगर्हितात्
मां हि धर्मात्मनः पत्नीं शचीमिव शचीपतेः
त्वदन्यस्त्रिषु लोकेषु प्रार्थयेन्मनसापि कः
राक्षसाधम रामस्य भार्याममिततेजसः
उक्तवानसि यत्पापं क्व गतस्तस्य मोक्ष्यसे
यथा दृप्तश्च मातङ्गः शशश्च सहितौ वने
तथा द्विरदवद्रामस्त्वं नीच शशवत्स्मृतः
स त्वमिक्ष्वाकुनाथं वै क्षिपन्निह न लज्जसे
चक्षुषो विषयं तस्य न तावदुपगच्छसि
इमे ते नयने क्रूरे विरूपे कृष्णपिङ्गले
क्षितौ न पतिते कस्मान्मामनार्यनिरीक्षितः
तस्य धर्मात्मनः पत्नीं स्नुषां दशरथस्य च
कथं व्याहरतो मां ते न जिह्वा पाप शीर्यते
असंदेशात्तु रामस्य तपसश्चानुपालनात्
न त्वां कुर्मि दशग्रीव भस्म भस्मार्हतेजसा
नापहर्तुमहं शक्या तस्य रामस्य धीमतः
विधिस्तव वधार्थाय विहितो नात्र संशयः
शूरेण धनदभ्राता बलैः समुदितेन च
अपोह्य रामं कस्माद्धि दारचौर्यं त्वया कृतम्
सीताया वचनं श्रुत्वा रावणो राक्षसाधिपः
विवृत्य नयने क्रूरे जानकीमन्ववैक्षत
नीलजीमूतसंकाशो महाभुजशिरोधरः
सिंहसत्त्वगतिः श्रीमान्दीप्तजिह्वोग्रलोचनः
चलाग्रमकुटः प्रांशुश्चित्रमाल्यानुलेपनः
रक्तमाल्याम्बरधरस्तप्ताङ्गदविभूषणः
श्रोणीसूत्रेण महता मेककेन सुसंवृतः
अमृतोत्पादनद्धेन भुजंगेनेव मन्दरः
तरुणादित्यवर्णाभ्यां कुण्डलाभ्यां विभूषितः
रक्तपल्लवपुष्पाभ्यामशोकाभ्यामिवाचलः
अवेक्षमाणो वैदेहीं कोपसंरक्तलोचनः
उवाच रावणः सीतां भुजंग इव निःश्वसन्
अनयेनाभिसंपन्नमर्थहीनमनुव्रते
नाशयाम्यहमद्य त्वां सूर्यः संध्यामिवौजसा
इत्युक्त्वा मैथिलीं राजा रावणः शत्रुरावणः
संदिदेश ततः सर्वा राक्षसीर्घोरदर्शनाः